________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२८ चरक-संहिता। [विमीयचिकित्सितम्
सर्वाणि रूपाणि तु वक्तरोगे
भवन्ति यस्मिन् स तु सन्निपातात् ।। ६७॥ संस्थानदृष्याकृतिनामभेदाच्चैते चतुःषष्टिविधा भवन्ति ॥ शालाक्यतन्त्रे विहितानि तेषां निमित्तरूपाकृतिभेषजानि । यथाप्रदेशश्च चतुर्विधस्य चिकित्सितं वक्तगदस्य वक्ष्ये ॥१८॥ सर्वाणीत्यादि। सन्निपाताद वक्तरोगः स तु यस्मिन् वक्तरोगे सर्वाणि शोथादीनि मन्दरुजान्तानि रूपाणि भवन्ति ॥६७॥
गङ्गाधरः-इति चखारो ये मुखामयास्तत्र ते संस्थानदूष्याकृतिनामभेदाच्चैकश्चतुःषष्टिधा चेति पञ्चषष्टिधा भवन्ति। तेषां शालाक्यप्रधानतन्त्रे निमित्तादीनि विस्तरेण विहितानि। कायप्रधानतन्त्रे खस्मिन् न विस्तरेणोक्तानि भवन्ति। अथ चतुर्विधस्य तु वक्तगदस्य यथाप्रदिष्टं चिकिसितमहं वक्ष्ये। सुश्रते तु ते पञ्चषष्टिधा मुखरोगा उक्ताः। तद् यथा। “मुखरोगाः पञ्चषष्टिः सप्तस्वायतनेषु, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणि चेति । तत्राष्टावोष्ठयोः पञ्चदश दन्तमूलेषु अष्टौ दन्तेषु पश्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वायतनेषु । तत्रौष्ठप्रकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोऽभिघातनिमित्ताः। कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ। दाल्येते परिपाटेवते औष्ठौ मारुतकोपतः॥ आचितो पिड़काभिस्तु सर्षपाकृतिभिभृशम्। सदाहपाकसंस्रावो नीलो पीतौ च पित्ततः॥ सवर्णाभिस्तु चीयेते पीड़काभिरवेदनौ। कण्डमन्तौ कफाच्छूनौ पिच्छिलौ शीतलौ गुरू॥ सकृतकृष्णो सकृत्पीतौ सकुच्छेतौ तथैव च। सन्निपातेन विज्ञ य वनेकपिड़काचितौ॥ खजूरफलवर्णाभिः पिड़काभिः समाचितौ। रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभो॥ मांसदुष्टौ गुरू स्थूलो मांसपिण्डवदुन्नतौ। जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ॥ मेदसा घृतमण्डाभो कण्डूमन्तौ स्थिरौ मृदू। अच्छस्फटिकसङ्काशमानावं स्रवतो गुरू॥ मुखरोगाणां प्रपञ्चः, तथाप्यसैव सर्वेषां चतुर्विधमुखरोगेऽन्तर्भावं दर्शयन्नाह-संस्थानेत्यादि । संस्थानं महारोगः दूष्यं रक्तादि आकृतिर्लिङ्ग इत्यादिभेदाः चतुःषष्टिविधा भवन्ति, ते च शालाक्ये एवोन्नेयाः। मुखरोगाणान्तु चतुःषष्टित्वं वैदेहमतानुसारेणोक्तम्। सुश्रुते तु पञ्चषष्टिमुखरोगा उकास्तथापीह चतुर्विधेष्वेव यथाप्रदेश अन्तर्निवेशः कृतः ॥ ६७ । ६८ ॥
For Private and Personal Use Only