SearchBrowseAboutContactDonate
Page Preview
Page 1092
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्याया] चिकित्सितस्थानम् । ३३२१ खिन्नस्य वान्तस्य विलचितस्य क्रिया कफनी कफमर्मरोगे। कौलत्थधान्यैश्च रसैर्यवान्न-पानानि तीक्ष्णानि सशर्कराणि * ॥ मूत्रे शृताः कटफलशृङ्गवेर-पीतनु पथ्यातिविषाः प्रदेयाः। तथा शटीशुण्ठिवचोपकुल्या-रास्नावचापुष्करमूलचूर्णम् ॥ उडुम्बराश्वत्थवटार्जुनाख्ये पालाशरोहीतकखादिरे च । काथे त्रिवृत्यूषणचूर्णसिद्धो लेहः कफनो युत उष्णतोयैः ॥ शिलाह्वयं वा भिषगप्रमत्तः प्रयोजयेत् कल्पविधानदृष्टम् । प्राश्याथवागरस्यहरीतकीच रसायनं ब्राह्मामथामलक्याः॥५६॥ त्रिदोषजे लानमादितः स्यादन्नश्च सन्वेषु हितं विधेयम् । हीनातिमध्यत्वमवेक्ष्य चैव कायं त्रयाणामपि कर्म शस्तम् ॥ गङ्गाधरः-पित्तहृद्रोगचिकितसितमुक्त्वा कफहद्रोगचिकित्सितमाहखिन्नस्येत्यादि। कौलत्थधान्ययो रसै पक्वं यवान्नं तैरर्द्धभृतश्च पानमित्येवं तीक्ष्णान्यन्नपानानि सशराणि हितानि। मूत्रे इत्यादि। कटफलादयोऽतिविषान्ता गोमूत्रे शृताः काथरूपा देयाः। तथा शव्यादीनां चूर्ण प्रदेयम् । उडुम्बरेत्यादि। उडुम्बरादिकार्जुनान्तकाथे पालाशखादिरान्ते काथे त्रितादिचूर्ण दत्त्वा सिद्धो लेहः पक्त्वा लेहः कार्यः, स चोष्णसलिलयुक्तः पेयः । शिलाह्वयमित्यादि। शिलाजतुनाम लेहं भिषक् प्रयोजयेत्। तथा अगस्त्यहरीतकीलेहं प्रयोजयेत् । ब्राह्मा रसायनं तथामलकीरसायनं प्रयोजयेत् ॥५९॥ गङ्गाधरः-अथ त्रिदोषजहृद्रोगचिकित्सितमाह-त्रिदोषज इत्यादि। सर्वेषु वातादिजेषु प्रत्येकं विहितं मिलिखा विधेयम् । तत्र हीनादिदोषमवेक्ष्य तथानु चक्रपाणिः-स्विक्षस्येत्यादि कफजहृद्रोगचिकित्साधिकारः। शङ्कराणीति कल्याणकराणि । कल्पशब्देन च क्षुद्ररसायनमुच्यते । प्राश इति च्यवनप्राशः । अगस्त्येति रेहविशेषणम् ॥ ५९॥ चक्रपाणिः-तिदोषज इत्यादौ आदौ लङ्घनविधानं हृदयस्य कफस्थानतया, तद्गदे त्रिदोषजेऽपि कफ एवादौ लानेन जेय इति मत्वा कृतम्। त्रिदोषजे उल्बणदोषचिकित्सासूत्रमाहहीनाधीत्यादि। हीनत्वमधिकत्वं मध्यमत्वदोषाणामवेक्ष्य यत् कर्म शस्तं अधिकदोष * च शङ्कराणीति पाठान्तरम्। + प्राशस्तथागस्त्यहरीतकी च इति वा पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy