SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३३६ चरक-संहिता। { रसायनपाद ४ उपयोक्तव्याः। ततश्चतुर्थे मासे पौर्णमास्यां शुचौ देशे ब्राह्मणानर्चयित्वा कृतमङ्गलो निष्क्रम्य यथोक्तं व्रजेदिति। ओपधीनां पतिं सोममुपयुज्य विचक्षणः। दशवर्षसहस्राणि नवां धारयते तनुम् । नाग्निर्न तोयं न विषं न शस्त्रं नास्त्रमेव च। तस्यालमायुःक्षपणे समर्थाश्च भवन्ति हि। भद्राणां षष्टिवर्षाणां प्रस् तानामनेकधा। कुञ्जराणां सहस्रस्य बलं समधिगच्छति । क्षीरोदं शक्रसदनमुत्तरांश्च कुरूनपि । यत्रेच्छति स गन्तुवा तत्राप्रतिहता गतिः । कन्दर्प इव रूपेण कान्त्या चन्द्र इवापरः। प्रह्लादयति भूतानां मनांसि स महादुप्रतिः। साङ्गोपाङ्गांश्च निखिलान् वेदान् विन्दन्ति तत्त्वतः। चरत्यमोघसंकल्पो देववच्चाखिलं जगत् ॥” __ सर्वेषामेव सोमानामेकविध एवैष प्रयोग विधिः मुश्रुतेनोक्तो शेयस्तथाअन्यासामष्टादशानामोषधीनामपि प्रयोग एवम् उक्तस्तद, यथा। अजगरी श्वेतकापोती कृष्णकापोती गोनसी वाराही कन्या च्छत्राऽतिच्छत्रा करेणुरजा चक्रका आदित्यपर्णिनी ब्रह्मसुवर्चला श्रावणी महाश्रावणी गोलोमी चाजलोमी महावेगवती चेत्यष्टादश सोमसमवीर्या महौषधयो व्याख्याताः। तासां सोमवत् क्रियाशीस्तुतयः शास्त्रेऽभिहिताः । तासामागारेऽभिहुतानां याः क्षीरवत्यस्तासां क्षीरकुड़वं सकृदेवोपयुञ्जीत । यास्त्वक्षीरा मूलवत्यस्तासां प्रदेशेनीप्रमाणानि त्रीणि काण्डानि प्रमाणम् उपयोगे। श्वेतकापोती समूलपत्रा भक्षयितव्या। गोनस्य जगरीकृष्णकापोतीनां सनखमुष्टिं खण्डशः कल्पयिखा क्षीरेण विपाच्य परिस्रावितमभिहुतश्च सकृदेवोपयुञ्जीत। चक्रकायाः पयः सकृदेव, ब्रह्मसुवर्चलायाः सप्तरात्रम् उपयोक्तव्यम्। भक्ष्यकल्पेन शेषाणां पञ्च पलानि क्षीरादककथितानि प्रस्थेऽवशिष्टेऽवतार्य्य परिस्राव्य सकृदेवोपयुञ्जीत। सोमवदाहारविहारौ व्याख्यातो केवलन्तु नवनीतमभ्यगाथै, शेषं सोमवदा निर्गमादिति। भवन्ति चात्र। युवानं सिंहविक्रान्तं कान्तं श्रुतनिगादिनम् । कुर्युरेताः क्रमेण व द्विसहस्रायुषं नरम् । अङ्गदी कुण्डली मौली दिव्यस्रक्चन्दनाम्बरः। चरत्यमोघसंकल्पो नभ'स्यम्बुददुर्गमे। व्रजन्ति पक्षिणो येन जललम्बाश्च तोयदाः। गतिः सौषधिसिद्धस्य सोमसिद्धगतिः परा। अथ वक्ष्यामि विज्ञानमोषधीना पृथक पृथक् । मण्डलैः कपिलैश्चित्रैः सर्पाभा पञ्चपणिनी। पञ्चारनिप्रमाणा वा विशे याजगरी बुधैः। निष्पत्रा कनकाभासा मूले प्रङ्गलसम्मिता। सर्पाकारा लोहितान्ता 'श्वेतकापोतिरुच्यते॥ द्विपर्णिनीं मूलभवामरुणां कृष्णमण्डलाम् । अरनिमात्रां For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy