SearchBrowseAboutContactDonate
Page Preview
Page 1065
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६४ चरक-संहिता। द्विवणीयचिकित्सितम् चतुष्पदानां त्वग्रोम-खुरशृङ्गास्थिभस्मना। तैलाक्ता चर्णिता भूमिर्भवेद्रोमवती पुनः ॥ ५५ ॥ षोडशोपद्रवा ये च व्रणानां परिकीर्तिताः। तेषां चिकित्सा निर्दिष्टा यथा स्वस्खचिकित्सिते॥५६॥ तत्र श्लोको। द्वौ व्रणौ व्रणभेदाश्च परीक्षा दुष्टिरेव च । स्थानानि गन्धाः नावाश्च सोपसर्गाः क्रियाश्च याः॥ वणाधिकारे संप्रश्नमेतन्नवकमुक्तवान् । मुनिर्व्याससमासाभ्यामग्निवेशाय धोमते ॥ ५७॥ . इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृते चिकित्सितस्थाने द्विवणोयचिकित्सितं नाम पञ्चविंशोऽध्यायः॥ २५ ॥ मङ्गाधरः-वर्ण्यमुक्त्वा रोवणलोमरोहणे आह-चतुष्पदानामित्यादि। चतुष्पदानां लगादीनां भस्मना तलाक्ता व्रणभूमिश्चूर्णिता घर्षिता पुनर्लोमवती भवेदिति ॥५५॥ गङ्गाधर-पत्रिंशदुपक्रमानुत्त्वा उपद्रवाणां विसर्यादीनां चिकित्सामाहषोड़शेत्यादि। स्वस्खचिकित्सिते यथा निर्दिष्टाश्चिकित्सास्तथा चिकित्साः परिकीर्तिताः॥५६॥ गङ्गाधरः-अध्यायार्थमुपसंहरति। तत्र श्लोकाविति। द्वौ व्रणावित्यादि। इति ॥ ५७॥ अग्निवेशकृते तन्त्र चरकप्रतिसंस्कृते । अमाप्ते तु दृढ़वल-प्रतिसंस्कृत एव च। द्विवणीयचिकि सिते बध्याये पञ्चविंशके। वैद्यगङ्गाधरकृते जल्पकल्पतरौ । पुनः। चिकित्सितस्थानजल्पे षष्ठस्कन्धे दिवणीये। चिकित्सितजल्पो नाम शाखेयं पश्चविंशिका ॥२५॥ शल्याङ्गं समाप्तम् । चक्रपाणिः--द्वौ प्रणावित्याद्यध्यायसंग्रहः व्यक्तः ॥ ५५-५७ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिहत्तविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां द्विवणीयचिकित्सितं नाम पञ्चविंशोऽध्यायः ॥ २५ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy