SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , २५ अध्यायः] चिकित्सितस्थानम् । ३२६१ रुधिरेऽतिप्रवृत्ते तु भिन्न छेदोऽधिमांसके। कफग्रन्थिषु गण्डेषु वातस्तम्भेषु रुक्षु च ॥ गूढ़पूयलसीकेषु गम्भीरेषु व्रणेषु च।। सुप्तेषु चाङ्गदेशेषु कग्निः संप्रशस्यते ॥ मधूच्छिष्टेन तैलेन मजदौद्रवसाघृतः। तप्तैर्वा विविधलोहेर्दहेद दाहविशेषवित् ।। रूक्षाणां सुकुमाराणां गम्भीरान्मारुतोत्तरान् । दहेत् स्नेहमधूच्छिष्टोहः क्षौद्रस्ततो घृतः॥४४॥४५॥ बालदुर्बलवृद्धानां गर्भिण्या रक्तपित्तिनाम् । तृष्णावरपरीतानामबलानां विषादिनाम् । नाग्निकम्मोपदेष्टव्यं स्नायुमर्मवणेषु च । सविषेषु सशल्यषु नेत्रकोष्ठत्रणेषु च ॥ ४६॥ गङ्गावरः-द्विविधदाहविषयमाह-रुधिरेऽतीत्यादि । वातस्तम्भेषु रुजासु च सुप्तेषु स्पर्शशानरहितेषु अग्नेः कर्म दाहः संप्रशस्यते। यथा दहेत् तदाह । मधूच्छिष्टेनेत्यादि। दाहविशेषवित् मधूच्छिष्टादैाकैकं तप्तं कृला रुधिरातिप्रसवणच्छेद्यभेद्यादिषु सिञ्चेत् ततो दाहः स्यादित्येकः, अपरस्तु. तथा विविधैर्दाह्यस्थानानुरूपैलौ हेरग्निना तप्तैर्दहेत् । रूक्षाणामित्यादि। रूक्षादीनां गम्मीरान् वातोत्तरान् स्नेहमधूच्छिष्टैदेहेत्। ततोऽन्यान् लौहः सौद्रेघृतदेहेदिति ॥४४।४५॥ गङ्गाधरः-अदाह्यानाह-बालेत्यादि। बालादीनामग्निकर्म दाहो नोप देष्टव्यम्, स्नाय्वादिव्रणेषु च नाग्निकम्मोपदेष्टव्यमिति ॥४६॥ छये इति छेदनाह। तप्तैरिति रूक्षस्निग्धदाहभेदविषयं दर्शयन्नाह-सुकुमाराणामित्यादिना। दाहविशेषविदिति स्निग्धरूक्षादिरूपं तथा बिन्दुवलयादिरूपं जानातीति दाहविशेषवित्। विषादिनामिति भक्षितविषाणाम् ॥ ४३-४६॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy