SearchBrowseAboutContactDonate
Page Preview
Page 1060
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५ अध्यायः चिकित्सितस्थानम् । ३२८६ प्रपौण्डरीकं जीवन्ती गोजिह्वां धातकी बलाम् । रोपणं सतिलं दद्यात् प्रदेहं सघृतं व्रणे ॥ कम्पिल्लकं विङ्गानि वत्सकं त्रिफलां बलाम् । पटोलं पिचुमईञ्च लोध्र मुस्तं प्रियङ्गुकम् ॥ धातको खदिरं सर्जमेलामगुरुचन्दनम्। पिष्ट्रा साध्यं भवेत् तैलं तत् परं व्रणरोपणम् ॥ प्रपौण्डरीकं मधुकं काकोल्यौ द्वे च चन्दने। सिद्धमेतैः समस्तैलं परं स्याद् व्रणरोपणम् ॥ दूर्वाखरससिद्धं वा तैलं कम्पिल्लकेन वा। दा:त्वचश्च कल्केन प्रधानं व्रणरोपणम् ॥ . येनैव विधिना तैलं घृतं तेनैव साधयेत् । रक्तपित्तोत्तरं ज्ञात्वा रोपणे घृतमुत्तमम् ॥ ३८॥ मलेपान्तरमाह। प्रपौण्डरीकमित्यादि। प्रपौण्डरीकादितिलान्तं सघृतं प्रदेवं व्रणरोपणं दद्यात् । अथ शोधनतेलमाह। कम्पिल्लकमित्यादि। कम्पिल्लकादीनि पादिकानि पिष्ट्वा कल्लं दत्त्वा चतुर्गुणजले तैलं साध्यम्। तत् तैलं परं व्रणशोधनं भवेत् । रोपणतैलमाह । प्रपौण्डरीकमित्यादि। काकोल्यो द्वे चन्दने च द्वे। प्रपोण्डरीकादिकं कल्कं चतुर्गुणं जलम्। रोपणतेलान्तरमाह। दूव्र्वत्यादि। स्विरसे चतुर्गुणे कल्कहीनमेकं तैलम्। कम्पिल्लककल्केन चतुर्गुणजलेऽपरं तैलम् । दार्चीवकल्केन चतुर्गुणजलेन सिद्धमपरं तैलम् । अथ शोधन-रोपणे घृते आह-येनेत्यादि। कम्पिल्लकादिचन्दनान्तः कल्कै घृतं चतुर्गुणजले पकव्रणशोधनम् । प्रपौण्डरीकादिकल्कसिद्धं घृतं चतुर्गुणजले व्रणरोपणम्, तथा दृस्विरसे चतुर्गुणे लकल्कं घृतं सिद्धम् । कम्पिल्लककल्केन चतुगुणजले सिद्धं घृतमपरम्। दार्जीवकल्केन चतुर्गुणजलेनापरं सिद्धं घृतं रोपणमिति । घृतं रक्तपित्तोत्तरं शाखा साधयेत् । तैलं वातकफोत्तरे साधयेदिति ख्यापितम् ॥३८॥ कषाया इति बहुवचन निर्देशात् समस्तप्रयोगान् सूचयति। दा/ति दारुहरिद्रा। व्रणशोधनीयं तैलं साधयेत् । यथोक्ततैलद्रव्यैरेव घृतं साधयेदिति। घृतविषयमाह-रतपित्तोसरमित्यादि। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy