SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५श भध्यायः चिकित्सितस्थानम्। ३२७९ शोथघ्नं षड़ विधञ्चैव शस्त्रकर्मावपीडनम् । निर्वापणं ससन्धानं स्वेदः शमनमेव च ॥ शोधनरोपणौ चैव कषायो सप्रलेपनौ।। द्वे तैले तदघृते पत्र-च्छादनं + द्वे च बन्धने ॥ आद्यमुत्सादनं दाहो द्विविधः सावसादनः। काठिन्यमाईवकरे धूपने लेपने शुभे॥ व्रणावचूर्णनं वयं रोपणं लोमरोहणम् । इति षट्त्रिंशतं विद्याद् व्रणानां समुपक्रमान् ॥ १६ ॥ पूर्वरूपं भिषग बुद्धा व्रणानां शोथमादितः। रक्तावसेचनं कुर्य्यादजातव्रणशान्तये ॥ गङ्गाधरः षड्विधं शोथघ्नं वक्ष्यमाणव्रणशोथघ्नं कर्म। शस्त्रकर्म चावपीड़नञ्च निळपणश्च सन्धानश्च स्वेदश्च शमनश्च शोधनकषायश्च रोपणकषायश्च शोधनप्रलेपनश्च रोपणप्रलेपनश्च शोधनतलञ्च रोपणतैलश्च शोधनघृतञ्च रोपणघृतञ्च पत्रच्छादनश्च सग्यवन्धनञ्च दक्षिणबन्धनञ्च आद्यश्चोत्सादनञ्च दाहश्च द्विविधः अवसादनश्च काठिन्यकरधूपनञ्च माईवकरधृपनश्च काठिन्यकरलेपनश्च माईवकरलेपनश्च व्रणावचूर्णनश्च वर्ण्यश्च रोपणच लोमरोहणञ्चेति। इति षट्त्रिंशतं व्रणानामुपक्रमान विद्यात् ॥ १९॥ ____ गङ्गाधरः-तत्र यदा यो यत्र कार्यस्तदाह। पूर्वरूपमित्यादि। व्रणानां पूर्वरूपं शोथं व्रणशोथं भिषगादितो दोषलक्षणेन बुद्धा अजातव्रणशान्तये प्राधान्योपदर्शनार्थ पृथगभिधानम् । व्रणानामित्यादि उपक्रमानाह-शोफन्तमित्यादिना। शोफन्न उपक्रमो वक्ष्यमाणः । षट्शस्त्रकर्मेति पाटनादि शल्यतन्त्रोक्तं कर्मान्तर्भावनीयम् । किंवैषणं शस्त्रकम्मं तत् पृथगेव। अवपीड़न कल्कादीनां वासीपूयनिर्गमनार्थं वक्ष्यति। निर्धापणं दाहौष्ण्यशमनम्। 'शोधनौ रोपणीयौ च पायौ संप्रलेपनौ” इति शोधनरोपणकषायौ भेदाद वक्ष्यति, तथापि शोधनरोपणकर्मद्वयक कतया द्वित्वमेव । अत्र तैलघृतयोस्तद्गुणीयत्वम् । काश्मीरास्तु "द्वौ स्नेही तदगुणाविति" पठन्ति। पत्रच्छेदने इति पलमेकमुपक्रमः ।छेदना द्विविधं बाह्यान्तरभेदेन वक्ष्यमाणम् । उत्सादन व्रणोत्थापनम् । अवसादनमुत्सन्नव्रणमांसक्षयकरम् । काठिन्यमाईवकरे धूपनोन् मईने इति क्राठिन्यकरं धूपनम्, एवमुन्मई नमपि ज्ञेयम् । व्रणावचूर्णनं द्विविधम् । एवं षटखिंशदुपक्रमा भवन्ति। शल्यतन्ते तु षष्टिरुपक्रमा ये उक्कास्तेप्यन्तर्भावनीयाः ॥ १८॥१९॥ चक्रपाणिः-यथावस्थमुपक्रममाह-पूर्वरूपमित्यादि। विशोफीये व्रणपूर्वरूपशोथचिकित्सा* एषणेति पाठान्तरम् । + पवच्छेदने इति चक्रधृतः पाठः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy