SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२७० चरक-संहित। (मदात्ययचिकित्सितम् तत्र श्लोकाः। यत्प्रभावा भगवती सुरा पेया यथा च सा। यद्रव्या यस्य या चेष्टा योगश्चापेक्षते यथा ॥ यथा मदयते यैश्च गुणैर्युक्ता महागुणा । यो मदो मदभेदाश्च ये त्रयः स्वस्खलक्षणाः॥ ये च मद्यकृता दोषा गुणा ये च मदात्मकाः। यच्च त्रिविधमापानं यथासत्त्वञ्च लक्षणम् ॥ ये सहायाः सुखाः पाने विरज्यत्प्रमदा नराः । मदात्ययस्य यो हेतुर्लक्षणञ्च यथायथम् ॥ मद्य मद्योत्थिताम् रोगान् हन्ति यश्च क्रियाक्रमः। सव्वं तदुक्तमखिलं मदात्ययचिकित्सिते ॥७१॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढ़बलप्रतिसंस्कृत चिकित्सितस्थाने मदात्ययचिकित्सितं नाम चतुविशोऽध्यायः ॥ २४॥ गङ्गाधरः-अध्यायार्थ मुपसंहरति। तत्र श्लोका इत्यादि ॥ ७॥ अग्निवेशकृते तन्त्रे चरकमतिसंस्कृते। अप्राप्ते तु दृढ़बल प्रतिसंस्कृत एव च । मदात्ययचिकित्सिते चतुर्विंशेऽध्याये पुनः। वैद्यगङ्गाधरकृते जल्पकल्पतरौ .. पुनः । चिकित्सितस्थानजल्पे षष्ठस्कन्धे मदात्यये। चिकित्सित. जल्पो नाम शाखा चतुध्विंशी स्मृता ॥२४॥ चक्रपाणिः-- यत्प्रभावेत्यादि अध्यायसंग्रहः। संग्रहार्थो व्यक्त एव ॥ ७१ ॥ इति महामहोपाध्याय-चरकचतुरानन-श्रीमचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायो घरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां मदात्ययचिकित्सितं माम चतुचि शोऽध्यायः ॥ २५ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy