SearchBrowseAboutContactDonate
Page Preview
Page 1034
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४श अध्यायः] चिकित्सितस्थानम् । ३२६३ छागमांसरसं रूक्षमम्लं वा जाङ्गलं रसम् । स्थाल्यामथ कपाले वा भृष्टं नोरसवर्ति तम् ॥ कटम्ललवणं मांस भक्षयन् वृणुयान्मधु । व्यक्तमारोचकं मांसं मातुलुङ्गरसायुतम् ॥ प्रभूतकटु संयुक्तं यमानीनागरान्वितम् । यवगोधूमकञ्चान्नं रूक्षं यूषेण भाजयेत् ॥ कुलत्थानाञ्च शुष्काणां मूलकानां रसेन वा। भृष्टं दाडिमपञ्चाम्ल-मुद्गयूषं यवाष्टमम् ॥ यथाग्नि भक्षयेत् काले प्रभूता कपेषितम् । पिबेच्च निगदं मद्य कफप्राये मदात्यये ॥ ५८ ॥ यूषं अथाम्लं वा सिद्धं मुद्गादियूषं साम्लवेतसं प्रदापयेत् । रूक्षं घृतादिस्नेहभजनरहितं छागांसरसं प्रदापयेत्। अम्ळं वा जाङ्गलमांसरसं प्रदापयदिति। स्थाल्यामित्यादि । छागं वा जाङ्गलं वा मांसं स्थाल्यां भृष्टमथवा कपाले भृष्टं नीरसवर्ति कदम्ललवणयुतं तं नरं भक्षयन् भिषक् मधु पिवेस्वमिति तृणुयात्। व्यक्तेत्यादि। छागजाङ्गलानां मांसं पक्वं व्यक्तमरिचयुक्तं मातुलुङ्गरसेन पुनरायुतं प्रभूतकटुसंयुक्तं तिक्तबहुद्रव्ययुक्तं यमानी: नागरान्वितं भक्षयन् मधु ऋणयात् । यवेत्यादि। रूक्षं यवगोधूमकमन्नं यूपेण कुलत्थानां भोजयेत् । शुष्काणां मूलकानां रसेन वा भोजयेत् । भृष्टमित्यादि। दाहिमला कोलदाडिमक्षाम्लचक्रीकाचुक्रिकाश्चेति पञ्चाम्लं मुद्गयूषश्च यवश्वाष्टमो यत्र तदाडिमादियवाष्टमं भृष्टं प्रभूताकपेषितं काले भोजनाकाङ्क्षायां यथाग्नि भक्षयेत् । पिबेन तदनु निगदं नाम यदौषधं तच्च मद्य पिबेत् ॥ ५८॥ जलसाधनं स्मारयति। मधुकृतं माधवम् । व्योषप्रधानो यूषः। निद्रवस्तिमिति । निद्रव रसैवर्तितम् । वृ.यादिति व्याप्नुयात् । पाद्र कपेषितमिति भाखण्डानि पेषितानि ॥५५-५४॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy