SearchBrowseAboutContactDonate
Page Preview
Page 1032
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४श अध्यायः ] चिकित्सितस्थानम् । संस्पर्शाश्वन्दनार्द्राणां स्त्रीणां पित्तमदात्यये । शीतवीर्यं यदन्यच्च तत् सर्व्वं विनियोजयेत् ॥ जलयन्त्राणि वर्षाणि वातयन्त्वहानि च । कल्पनीयानि भिषजा दाहे धारागृहाण्यपि ॥ परिषेकावगाहेषु व्यजनानाञ्च सेचने । शस्यते शिशिरं तोयं तृष्णादाहोपशान्तये ॥ ५५ ॥ फलिनीलोत्रसेव्याम्बु- हेमपत्रं कुटन्नटम् । कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् ॥ कुमुदोत्पलपत्राणां सिक्तानां चन्दनाम्बुना । हितः स्पर्शो मनोज्ञानां दाहे मद्यसमुत्थिते ॥ कथाश्च विविधाश्चित्राः शब्दाश्च शिखिनां शुभाः । तोयदानाञ्च संशब्दा नाशयन्ति मदात्ययम् ॥ बदरीपल्लवोत्थश्च यश्चैवारिष्टकोद्भवः 1 फेनिलायाश्च यः फेनस्तैर्दाहे लेपनं हितम् ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३२६१ सुरा समण्डा दध्यम्लं मातुलुङ्गरसो मधु । सेके प्रदेशस्यन्ते दाहघ्नाः साम्लकाञ्जिकाः ॥ स्पर्शः । चन्दनार्द्राणां स्त्रीणां संस्पर्शः पित्तमदात्यये हितः । यच्चान्यच्छीतवीर्य तत् सव्वं विनियोजयेत् । जलेत्यादि । जलयन्त्राणि जलानां यन्त्राणि वातस्य यन्त्रवहाणि वर्षाणि च धारागृहाण्यपि दाहे भिषजा कल्पनीयानि । परिषेकेत्यादि । शिशिरं स्वतः शीतलं तोयम् ।। ५५ ॥ गङ्गाधरः फलिनीत्यादि । फलिन्यादिकं कालीयककाष्ठखरसोपेतम् । कुटन्नटं कैवर्त्त मुस्तकम् । कुमुदेत्यादि । चन्दनाम्बुना सिक्तानां कुमुदादीनां स्पर्शो हितः । कथाश्चेत्यादि । तोयदानां संशब्दाः सुशब्दा न तु कुशब्दाः । बदरीत्यादि । अरिष्टकोद्भवः निम्बपत्रस्वरसोद्भवः फेनः । फेनिलायाः फेनावत्या ओषध्याः | सुरेत्यादि । समण्डा सुरा दधि चाम्ल चक्रपाणिः - बदरीत्यादौ बदरीपत्राणि मथित्वा तज्जः फेनो ग्राह्यः । अरिष्टको निम्बः । ४०९
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy