SearchBrowseAboutContactDonate
Page Preview
Page 1030
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२५६ २४श अध्यायः चिकित्सितस्थानम् । काले पुनस्तर्पणञ्च क्रमं कुर्यात् प्रकाङ क्षिते। तेनाग्निर्दीप्यते तस्य दोषशेषान्नपाचकः ॥ ५२ ॥ कासे सरक्तनिष्ठीवे पार्श्वस्तनरुजासु च। तृष्यते सविदाहे च सोत्क्लेशे हृदयोरसि ॥ गुडूचीभद्रमुस्तानां पटोलस्याथवा भिषक् । रसं सनागरं ददयात् तैत्तिरः प्रतिभोजनम् ॥ ५३ ॥ तृष्यते चातिबलवदवातपित्तसमुद्भवे । ददाद द्राक्षारसं पातुं शीतं दोषानुलोमनम् ॥ जोणे च मधुराम्लेन छागमांसरसेन तम् । भोजनं भोजयेन्मदामनुतर्षञ्च पाययेत् । अनुतर्षस्य मात्रा सा यया नो हन्यते ® मनः॥ तृष्यते मदामल्पाल्पं प्रदेय स्याद बहुदकम् । तृष्णा येनोपशाम्येत मदं येन च नाप्नुयात् ॥ गङ्गाधरः-वमनानन्तरं कर्त्तव्यमाह-काल इत्यादि। पुन भुक्षायामाहारप्रकासिते तस्मिन् वामिते आहारकाले तर्पणञ्च कुर्यात्। ततः पेयादिक्रमं कुर्यात्, तेन तस्य नरस्य दोषशेषस्यान्नस्य च पाचकोऽग्निदोप्यते ॥५२॥ गङ्गाधरः-कास इत्यादि। सरक्तष्ठीवकासादिषु गुडू च्यादीनां रसं काथं पटोलपत्रस्य वा रसं सनागरं दद्यात् । तत्तिरैमसिरसः प्रतिभोजनं दद्यात् ॥ ५३॥ ___ गङ्गाधरः-तृष्यत इत्यादि। अतिबलबद्वातपित्तसमुदभवे मदात्यये तृष्यते नराय शीतं द्राक्षारसं पातु दद्यात् । तद्राक्षारसे जीर्णे भोजना दनुतष मद्य पाययेत्। अनुतर्षस्य मद्यमात्रा सा, यया मात्रया मनो न हन्यते। तृष्यत इत्यादि। अम्लेनाम्लीकृतं मद्य बहूदकं तृष्यते देयम् । चक्रपाणिः-क्रममिति। दोपशेषः कोष्टलेपकोऽत्र ज्ञेयः। गुड़ चीत्यादौ रसमिति काथम् । तित्तिरिप्रतिभोजनं जीर्ण भोजने यस्मिन् तित्तिरिः प्रतिभुज्यते तत्। अनुतर्षञ्च पाययेदिति *स्यत इति वा पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy