SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२५६ चरक-संहिता। मदात्ययचिकित्सितम् दृष्ट्रा वातोल्बणं लिङ्ग रसैश्चैनमुपाचरेत् । लावतित्तिरिदक्षाणां स्निग्धाम्लैः शिखिनामपि ॥ पक्षिणां मृगमत्स्यानामानूपानाञ्च संस्कृतैः। भूशयप्रसहानाञ्च रसः शाल्योदनेन च ॥ ४५ ॥ स्निग्धोष्णलवणाम्लैश्च वेशवारैमखप्रियः। स्निग्धैर्गोधूमकैश्चान्यैर्वारुणीमण्डमिश्रितैः॥ सितामाईकगर्भाभिः स्निग्धाभिः पूपर्तिभिः । माषपूपलिकाभिश्च वातिकं समुपाचरेत् ॥ ४६॥ नातिस्निग्धैर्न चाम्लेन सिद्धं समरिचाकम् । मेध्यं प्रकटितं मांसं दाडिमस्य रसेन वा ॥ पृथङ मुनातकोपेतं ® सधान्यमरिचा कम्। रसप्रलेहयूषैश्च सुखोष्णैः सह दापयेत् ॥ भक्तेन वारुणीमण्डं ददयात् पातुं पिपासवे। दाडिमस्य रस वापि जलं वा पाश्चमूलिकम् ॥ - गङ्गाधरः-दृष्ट्वेत्यादि। वातोल्वणं लिङ्ग दृष्ट्वा वक्ष्यमाणैमसरसैरेनं बातमदात्ययिनमुपाचरेत् । रसार्थं मांसान्याह। लावत्यादि। शाल्योदनेन चोपाचरेत् ॥४५॥ - गङ्गाधरः-स्निग्धोष्णेत्यादि। सिता चामलकश्च गर्भे यासां ताभिः पूपवर्तिभिर्माषपूपलिकाभिश्च ॥४६॥ गङ्गाधरः–नातिस्निग्धरित्यादि। अतिस्निग्धैर्न सिद्धं न चाम्लेन सिद्धं प्रकटितं व्यक्तं मेध्यं मांसं दापयेत् । अथवा दाडिमस्याम्लन रसेन प्रकटितं मेध्यं मांसं दापयेत्। मुञ्जातकोपेतं मेध्यं मांसं सधान्यमरिचाक पृथग दापयेत् । रसादिभिः सुखोष्णैः सह मेध्यं मांस दापयेदिति। दक्षः कुक्कुटः। वेशवारः स चोक्तलक्षणः। रसप्रलेपनमिति रसमलेपनरूपतया निर्मातरस • विजातकोपेतमिति पाअन्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy