SearchBrowseAboutContactDonate
Page Preview
Page 1015
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (मदात्यचिकित्सितम ३२४४ चरक-संहिता। [मदात्ययचिकित्सितम् प्राणाः प्राणभृतामन्नं तदयुक्त्या निहन्त्यसून् । विषं प्राणहरं तच्च युक्तियुक्तं रसायनम् ॥ २१॥ हर्षमूर्जी मुदं पुष्टिमारोग्यं पौरुषं बलम्। युक्त्या पोतं करोत्याशु मद्य मदसुखप्रदम् ॥ रोचनं दीपनं हृद्य स्वरवर्णप्रसादनम् । प्रोणनं वृहणं बल्यं भयशोकश्रमापहम् ।' खापनं नष्टनिद्राणां मूकानां वाग्विशोधनम्। बोधनञ्चातिनिद्राणां विबन्धानां विबन्धनुत् ॥ बधबन्धपरिक्लेश-दुःखानाचाप्यबोधनम् । मद्योत्थानाञ्च रोगाणां मद्यमेव प्रवाधकम् ॥ तथा स्मृतम्। कथमित्यत आह-अयुक्तीत्यादि। यथानमयुक्तियुत्त रोगाय भवति, युक्तियुक्तं तदनं यथामृतं तथा भवति ॥२०॥ गङ्गाधरः-तथा कथं स्यादित्यत आह-प्राणा इत्यादि। यथा प्राणभृतामन्न प्राणाः प्राणहेतुः। आयुघृतमितिवत् । तदन्नमयुक्त्या युन्नमसून् निहन्ति। तर्हि विषतुल्यगुणं मद्य कथमन्नवद् भवतीत्यत आह-प्राणा इत्यादि। प्राणहरञ्च विषं यत् तच्च युक्तियुक्तं रसायनं भवति ॥ २१॥ .. गङ्गाधरः-हर्षमित्यादि। यथा विषं युक्तियुक्त्या रसायनं तथा युक्त्या .. चक्रपाणि:-तच्च शुभाशुभकार्यमाह-प्राणा इत्यादि। प्राणहेतुत्वात् प्राणाः। तदयुक्तयेति अतिमात्रस्वादिना। युक्तियुक्तं रसायनमिति यथा 'विषस्य तु तिलं दद्यात्' इति रसायनप्रयोगे सिलस रसायनत्वं ज्ञ यम ॥ २१॥ चक्रपाणि:-विधिपीतमद्यगुणानाह-हर्षमूर्ज इत्यादि । हर्ष उत्साहकं शारीरम्। मुदमिति मनःसन्तोषम् । पौरुपमिति शुक्रम् । आश्वितवचनात् शीघ्र हर्षादीनि करोति, न परिणामक्रियामपेक्षते। मदसुखमिति सुखप्रदमदम्, प्रथमं मदमिति यावत्। अन्ये तु मदसुखप्रदामिति पठन्ति। तखापि मदसुखं प्रथममदारम्भ एव। रोचनमित्यादिना मद्यगुणानाह-वापनं नष्टनिद्राणां तथा बोधनञ्चातिनिद्राणामिति कार्यद्वयकारकम् । निद्राकरत्वप्रभावादेव, किंवा नष्टनिद्राणां निद्राभिघातहेतुचिन्तनादिविस्मारकतया निद्राकरं भवति। अतिनिद्राणां निद्राहेतुमनोवहस्रोतोरोगादिहन्तृतया प्रबोधकं भवतीति ज्ञेयम्। 'मद्योत्थानाञ्च रोगाणां मद्यमेव For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy