SearchBrowseAboutContactDonate
Page Preview
Page 1007
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२३६ चरक-संहिता। [मदात्ययचिकित्सितम् पिबेत् संपूज्य विबुधानाशिषः सम्प्रयुज्य च। प्रदाय यजनञ्चाय त्वर्थिभ्यः पृथिवीतले ॥ ४॥ अभ्यङ्गोत्सादनस्नान-वासोधूपानुलेपनः । स्निग्धोष्णैर्भावितश्चान्यैर्वातिको मद्यमाचरेत् । शीतोपचारैर्विविधैर्मधुरस्निग्धशीतलैः। पैत्तिको भावितश्चान्यैः पिबन् मद्य न सोदति ॥ उपचारैश्चाशिशिरैर्यवगोधूमभुक् पिबेत् । श्लैष्मिको धन्यजमींसमद्य मारीचकैः सह ॥ कफपित्तात्मकेभ्यश्च माध्वीकं ® माधवञ्च यत्। . बहुद्रवं बहुगुणं बहुकर्म मदात्मकम् ॥ विधिर्वसुमतामेष भविष्यद्विभवाश्च ये। यथोपपत्तिकैर्मद्यपातव्यं मात्रया हितम् ॥ ५ ॥ गङ्गाधरः-यैः सह पिबेत् तदाह-पिबेदित्यादि। विबुधान देवान् सम्पूज्याशिषश्च सम्प्रयुज्य पृथिवीतले येऽर्थिनस्तेभ्योऽर्थमेव यजनमच्चेनं प्रदाय पिबेत् ॥४ . गङ्गाधरः-प्रकृतिभेदे विधिमाह-अभ्यङ्गेत्यादि । स्निग्धोष्णैरभ्यङ्गादिभिस्तथान्यैरपि स्निग्धोष्ण भक्ष्यैर्वातिको जनो मद्य पिबेत्। शीतोपचारैरित्यादि। मधुरस्निग्धशीतवीर्यस्पर्शाभ्यङ्गादिभिस्तथान्यः पित्तहरैर्भावितः पैत्तिकः पुरुषो मद्य पिबन् न सीदति । उपचाररित्यादि। अशिशिरैरुष्णरूक्षादिभिरभ्यादिभिः उपचारधन्वमांसौरीचकर्म रिचप्रधानः सह मद्य यवगोधूमभुक् श्लैष्मिको नरः पिषेत्। कफेत्यादि। कफपित्तात्मकेभ्यश्च नरेभ्यो हितं तन्मय यन्माध्वीकं यच्च माधवं बहुद्रवं बहुजलमिश्रितम् । तत् तु बहुगुणं बहुकर्म पुष्ट्याउनेककर्मकरं मदात्मकञ्च। विधिरित्यादि। ये भविष्यद्विभवास्तेषां यथोपपत्तिकैर्वर्तमानविभवानुरूपैर्मात्रया हितं मद्य पातव्यमिति ॥५॥ सुख स्थित इति यथाशरीरसुखं स्थितः। सुकृतैरिति संस्कृतः। शिक्षिताभिरिति श्रभ्यस्ताभिः । गन्धपिशुनैरिति गन्धाढ्य । पौरोगवर्गा इति अश्विनीबलदेवचण्डा इत्पर्यः, तैः ॥ ३४॥ . चक्रपाणिः-सामान्य विधिमुक्तवा वातिकादीनां पानविधिमाह-अभ्यङ्ग त्यादि। मरिचकैरिति मरिचसंस्कृतैः। वसुमतामिति धनवतां भविष्यद्विभवा उत्पामानधनाः । * माकमिति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy