________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः इन्द्रियस्थानम्।
२१५७ चानेकत्वमप्रशस्तम्। इति स्वराधिकारः। इति वर्णखराधिकारौ यथावदुक्तौ मुमूर्षतां ज्ञानार्थम् ॥८॥
भवन्ति चात्र। यस्य वैकारिको वर्णः शरीर उपपद्यते। अर्द्ध वा यदि वा कृत्रने निमित्तं न च नास्ति सः॥ नीलं वा यदि वा श्याम ताम्र वा यदि वारुणम् । मुखार्द्धमन्यथावर्णो मुखाद्धेऽरिष्टमुच्यते ॥ स्नेहो मुखाः सुव्यक्तो रौक्ष्यमर्द्धमुखे भृशम् ।
ग्लानिरद्धे तथा हर्षो मुखाड़े प्रेतलक्षणम् ॥ स्वराणामाशु शीघ्रमभिनित्तिः , अप्रशस्तमरिष्टमातुरस्य। तथा स्वराणामनेकेषां प्रकृतिस्वराणां वा विकृतिस्वराणां वा एकलम् मिश्रीभावेणैकस्वरखम् एको वैकारिकः स्वरः। एकस्य वा स्वरस्यानेकवं बहवो वैकारिकस्य खराः। तथातुरस्य बलादिहीनस्य सहसा भवति तदा तस्यातुरस्य अप्रशस्तमिति ॥ ८॥
गङ्गाधरः-एतदर्थे श्लोकानाह-भवन्तीत्यादि। यस्येत्यादि । वैकारिको वर्णो नीलश्यामादिर्व्याख्यातः। अ वा शरीरे उपपद्यतेऽपरा? प्रकृतिवण इति गम्यमानखात् । न च तत्र निमित्तं, तदा स नास्ति मृतोऽभूदित्यर्थः । यदि वा कृत्स्ने शरीरे वाह वाभ्यन्तरे वा कृत्स्नशरीरे वैकारिको वर्ण उत्पद्यते, न च तत्र निमित्तं वातादिकारणं, वर्ततेऽभ्यन्तरे वा वारे वा गम्यमानखात् प्रकृतिवर्णस्तदा स नास्ति। नीलं वेत्यादि । यद्यर्द्ध मुखं नीलं मुखार्द्धऽन्यथावर्णः प्रकृतिवर्णात्, किं वार्द्धमुखं श्याममभ्यन्तरतो मुखार्द्धऽन्यथाव! यदि वार्द्ध मुखमभ्यन्तरतस्ताम्र मुखार्द्धऽन्यथावर्णः, यदि वार्द्ध मुखमभ्यन्तरेण अरुणं हारितशुक्लं मुखा?ऽभ्यन्तरतोऽन्यथावर्णः प्रकृतिवर्णः स्यात् तदा अरिष्टमुच्यते। स्नेह इति। स्नेहो मुखार्द्ध इत्यादि पूर्व व्याख्यातम् । अन्यथामूता इति प्रकृतिवैकारिकाः। स्वरानेकन्वमिति कदाचिदेव एडकस्वरत्वं कदाचित् कलस्वरत्वमित्यादि। एकस्य चानेकन्वमिति एकस्यैव स्वरम्य चानेकत्वमिति प्रतिभाति । अनिमित्तमिति सम्बध्यते ॥ ८॥
For Private and Personal Use Only