________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१५०
चरक-संहिता। वर्णस्वरीयमिन्द्रिय विकृतिः पुनर्लक्षणनिमित्ता च लक्ष्यनिमित्ता च निमित्तानुरूपा च। लक्ष्यमिति तावन्निमित्तानुमानम्। तत्र लक्षणनिमित्ता नाम सा यस्याः शरीरे लक्षणान्येव हेतुभूतानि भवन्ति । लक्षगानि हि कानिचिच्छरीरोपनिबद्धानि। यानि तस्मिंस्तस्मिन् काले
नियताश्च भवन्ति, दशानियताश्च भवन्ति, कालनियताश्च भवन्ति, वयोनियताश्च भवन्ति, प्रत्येकपुरुषनियताश्चैव भवन्ति नान्यनियताः। तस्मात् जातिप्रसक्तादिः षोढ़ा प्रकृतिः ॥३॥
गङ्गाधरः-विकृति वितृणोति स्वरूपतः---विकृतिरित्यादि। लक्षणं शरीरगतरेखाचक्रशङ्खादिचिह्न तनिमित्तं यस्याः सा लक्षणनिमित्ता विकृतिः। लक्ष्यं निमित्तैरनुमीयते यत् तल्लक्ष्यं व्याध्यादिकम्, तनिमित्तं यस्याः सा लक्ष्यनिमित्ता विकृतिः। व्याधितो हि सत्त्वशरीरयोविकृतिर्भवति। निमित्तानुरूपेति । निमित्तेन यत् क्रियते तत् क्रियते यया विकृत्या सा विकृतिनिमित्तानुरूपा। ननु रेखादिलक्षणेन यल्लक्ष्यते शुभाशुभं तदत्र किं लक्ष्यमित्यतः स्वयं विटणोति-लक्ष्यमित्यादि। निमित्तानुमानं कारणेनानुमानं यस्य तनिमित्तानुमानं व्याध्यादिकं तावल्लक्ष्यम्। न तु लक्षणरेखादिभिर्लक्ष्यं शुभाशुभमत्र विवक्ष्यते। लक्षणनिमित्तादिविकृतित्रयं क्रमेण भाष्येण विवृणोतितत्रेत्यादि। शरीरे लक्षणान्येव शङ्खाश् शादिरेखादिकानि चिह्नानि यस्याः विकृतेर्हतुभूतानि भवन्ति सा विकृतिलक्षणनिमित्ता नाम । कुत एतदित्यत आह-लक्षणानि हीत्यादि। हि यस्मात् कानिचिल्लक्षणानि शारीररेखादिचिह्नानि शरीरोपनिबद्धानि शरीरेण सह जातानि उत्तरकालं जातानि च शरीरे लग्नानि भवन्ति। ननु तानि कानि चिह्नानि इत्यत आह---यानीत्यादि। यानि शारीरचिह्नानि तस्मिंस्तस्मिन् काले तत्तच्चिमूचनीयशुभा
कुतः पुनर्जात्यादिनियता प्रकृतिर्भवतीत्यत्र हेतुमाह- जातिकुलेत्यादि। ते ते भावविशेषा इति शुचित्वाशौचादयः ॥३॥ __चक्रपाणिः-रिष्टाधिकाराधिकृतां विकृति विवेचयितुं सर्वानेव विकृतिभेदानाह-विकृतिस्यादि। हेतुभूतानीति हेतुसदृशानि, तेन दैवमेव नखरेखापनादिसामुद्रिकोक्तलक्षणयुक्त शरीरे राज्यधनवधबन्धनादिरूपविकृतिप्राप्ती हेतुः, र क्षणानि तु वनिमित्तानि बोधकमात्राणि, अत एव
For Private and Personal Use Only