________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४६
चरक-संहिता। (वर्णस्वरीयमिन्द्रियम् इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चतुश्च श्रोत्रञ्च घ्राणञ्च रसनश्च स्पर्शनश्च सत्वञ्च भक्तिश्च शौचञ्च तत्परैर्वा निवार्यते। नक्षत्रपीड़ा बहुधा यथा कालाविपच्यते। तथैवारिष्टपाकश्च ब्रुवते बहुधा जनाः। असिद्धिमाप्नुयाल्लोके प्रतिकुवेन् गतायुषः। अतो रिष्टानि यत्नेन लक्षयेत् कुशलो भिषक् ॥” इति। अथात इत्यादि। अथ जातिमूत्रीयानन्तरमतोऽरिष्टलक्षणानां चिकित्सायामुपयोगात् वर्णस्वरीयं वर्णश्च स्वरश्चेति परीक्षितुमधिकृत्य कृतोऽध्यायस्तं तथा। इन्द्रियम् इन्द्रः प्राणस्तस्य लिङ्गम् इतीन्द्रियं रिष्टम् । अथवा इन्द्रोऽन्तरात्मा तस्य लिङ्गमिति इन्द्रियं रिष्टमरिष्टमित्यनान्तरम् । व्याकरणे हुक्तमिन्द्रिय. मिन्द्रियलिङ्गमिति ॥१॥
गङ्गाधरः-इहेत्यादि। खलुशब्दो व्याक्यालङ्कारे। वणश्चति बुद्धीन्द्रियाणां मध्ये बहुविषयत्वेन चक्षुषः प्राधान्यात् शीघ्रतरग्रहणलाच चाक्षुषमावस्य परीक्षार्थ पूर्व वर्णश्चेत्युक्तम्। अत्र वर्णशब्देनोपलक्षणात् रौक्ष्यादयो गृह्यन्ते । वक्ष्यते ह्यत्रव वर्णग्रहणेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याता इति कश्चित्, तन्न ; वर्णस्वरमधिकृत्य ग्लानिहर्षरौक्ष्यादेः परीक्ष्यत्वेन निर्देशात् । स्वरश्चेति । शारीरभावान्तरमपेक्ष्याशुस्वरस्य श्रावणलात् रूपतोऽनाशुग्रहणाद रूपादनन्तरं गन्धरसादेः पूर्वमुपादानम्। एवमाशुशानादुत्तरोत्तरेषामनाशुवोधादुपादानं बोध्यम् । सत्त्वञ्चेति मनः। भक्तिरिच्छा शीलता साहजिकी त्ता। शौचं इन्द्रियस्य रिष्टरूपस्य प्रतिपादकोऽध्याय इन्द्रियस्तं व्याख्यास्यामः । एवमन्यत्रापि पुष्पितक. मिन्द्रियमित्याद्यपि इन्द्रियविशेपणं व्याख्येयम् ॥ १॥
चक्रपाणिः-इन्द्रियस्थानप्रतिपादंघ कृत्स्नं विषयमाह-इहेत्यादि । इहेन्द्रियस्थाने। 'खलु'शब्दो वाक्यालङ्कारे। इह यद्यपीन्द्रियाण्येव विषयवर्णादिग्राहकतया अग्रे वक्तुं युज्यन्ते, तथापि तेषामतीन्द्रियत्वेन न तदाश्रयरिष्टानां व्यक्तत्वम् । तेन प्रत्यक्तानि वर्णादीन्येवेति प्रव्यक्तस्ष्टिाधिकरणान्यग्रेऽभिधीयन्ते, वर्णादिष्वपि च यथा व्यक्तत्वं तथा पूर्वनिपातः। मेघादिशब्दस्तु यद्यपि वर्णादपि व्यक्तस्तथापि शब्दविशेष एवेह चात्मादिसम्पाद्यः 'स्वर'शब्दाभिधेयो रिष्टाधिकरणत्वेनाभिमतः, स च वर्णापेक्षयाऽव्यक्त एव। इहेत्यादावसमासेन वर्णादीनां प्रत्येकमपि रिष्टाधिकरणत्वं दर्शयति । समासे हि समुदायस्य रिष्टाधिकरणकतया परीक्षितव्यत्वं शङ्केत। वर्णशब्देन च वर्णसहचरिताश्चक्षुर्माह्या रौक्ष्यादयोऽपि गृह्यन्ते। अत एव वर्णप्रस्ताव एध वक्ष्यति यत् 'वर्णग्रहणेन ग्लानिहर्षरौक्ष्यस्नेहा व्याख्याताः' इति । स्वरादिग्रहणेन च स्वराधभावाऽपि गृह्यते । सेन मलिपर्व शब्दाभाषगन्धाभाधादयो रिष्टान्यवधुध्यन्ते। स्पर्शग्रहणेन च स्पर्शोपलभ्य
For Private and Personal Use Only