SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दम अध्यायः शारीरस्थानम्। २१४३ शरीरं चिन्त्यते सर्व दैवमानुषसम्पदा। सर्वभावैर्यतस्तस्माच्छारीरं स्थानमुच्यते ॥ ५६ ॥ इत्यग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते शारीरस्थाने जातिसूत्रीयं शारीरं नाम अष्टमोऽध्यायः ॥८॥ इत्याचार्यचरकमुनिविरचितायां संहितायां शारीरस्थानक चतुर्थं समाप्तम्। शारीरस्थानमेकपिण्डन श्लोकानाम् एकोनपञ्चाशदुत्तराणि नवशतानि । अङ्कन ६४६ । इति शारीरस्थानम् ॥ ४॥ यथेष्टं स्वाभिलषितां पूजां लभते इत्यर्थः। अथास्य स्थानस्य शारीरस्य निरुक्तिमाह--शरीरमित्यादि। यतो यस्माद्धतोः सर्वभावैर्महदहङ्कारादिभिविशिष्टं दैवमानुषसम्पदा च विशिष्टं शरीरं सर्च चिन्त्यते तस्माद्धेतोः शारीरस्थानमुच्यते। दैवसम्पदस्तु शरीरे परमात्मादिकाः। मानुषसम्पदस्तु पुरुषकारादिकाः॥ ५९॥ अध्यायं समापयति--अग्नीत्यादि। जातिसूत्रीयं नाम शारीरं कौमारभृत्य तन्त्र स्थानं समापयति- इत्याचार्येत्यादि । इति वैद्यश्रीगङ्गाधरकविराजकविरत्न विरचिते चरकजल्पकल्पतरौ चतुर्थस्कन्धे शारीरस्थानजल्पे जातिमूत्रीयशारीरजल्पाख्याष्टमी शाखा ॥८॥ इति चरकजल्पकल्पतरौ शारीरस्थानजल्पश्चतुर्थस्कन्धः ॥ ४ ॥ पुत्रस्यात्यन्तप्राधान्यं वहतीत्यनसूयकः । शारीरस्थानशब्दव्युत्पत्तिदर्शक श्लोकं पठन्ति-शरीरमित्यादि। तच व्यक्तार्थमेव ॥ ५४४५९ ॥ इति महामहोपाध्याय चरकचतुरानन-श्रीमञ्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां घरक तात्पीटीकायां शारीरस्थाने जातिसूत्रीयं शारीरं नाम भष्टमोऽध्यायः ॥ ८॥ ॥ श्रीः ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy