SearchBrowseAboutContactDonate
Page Preview
Page 974
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Th 4म अध्यायः ] शारीरस्थानम् । २१३५ नियतात्मना। निकुञ्ज च प्रयोक्तव्यं स्नानमस्य यथाविधि ॥ स्कन्दग्रहोपशमनं घृतं तच्चेह पूजितम्। कुर्य्याच विविधां पूजां शकुन्याः कुसुमैः शुभैः॥ अन्तरीक्षचरा देवी सर्वालङ्कारभूषिता। अधोमुखी तीक्ष्णतुण्डा शकुनी ते प्रसीदतु ॥ दुईशेना महाकाया पिङ्गाक्षी भैरवस्वरा। लम्बोदरी शङ्ककर्णी शकुनी ते प्रसीदतु ॥३॥ अथातो रेवतीप्रतिषेधं व्याख्यास्यामः। अश्वगन्धाजशृङ्गी च सारिया सपुनर्नवा। सहे विदारी च तथा कषायाः सेचने हिताः॥ तैलमभ्यञ्जने कायं कुष्ठे सज्जरसेऽपि वा। धवाश्वकर्णककुभ-धातकीतिन्दुकीषु च ॥ काकोल्यादिगणे चैव पानीयं सपि रिष्यते। कुलत्थाः शङ्खचूर्णश्च प्रदेहाः सागन्धिकाः॥ गृध्रोलूकपुरीषाणि यवा यवफलो घृतम्। सन्ध्ययोरुभयोः काय्यमेतदुद्धपनं शिशोः॥ वरुणारिष्टकमयं रुचकं सेन्दुकं तथा। सततं धारयेच्चापि कृतं वा पौत्रजीविकम् ॥ शुक्लाः सुमनसो लाजाः पयः शाल्योदनं तथा। बलिनिवेद्यो गोतीर्थ रेवत्यै प्रयतात्मना॥ सङ्गमे च भिषक स्नान कुर्याद धात्रीकुमारयोः। नानावस्त्रधरा देवी चित्रमाल्यानुलेपना ॥ चलत्कुण्डलिनी इमामा रेवती ते प्रसीदतु। लम्बा कराला विनता तथैव बहुपुत्रिका। रेवती सततं माता सा ते देवी प्रसीदतु ॥४॥ अथातः पूतनाप्रतिषेधं व्याख्यास्यामः। कपोतवक्तारलुको वरुणः पारिभद्रकः। आस्फोताश्चैव योज्याः स्युर्यालानां परिषेचने। वचा वयःस्था गोलोमी हरितालं मनःशिला ॥ कुष्ठं सज्जेरसञ्चैव तैलार्थे वर्ग इष्यते । हितं घृतं तुगाक्षीय्यां सिद्धं मधुरकेषु च ॥ कुष्ठतालीशखदिरं चन्दनस्यन्दने तथा। देवदारु वचा हिङ्गु कुष्ठं गिरिकदम्बकः ॥ एला हरेणवश्चापि योज्या उद्धपने सदा। गन्धनाकुलिकुम्भीका-मज्जानो बदरस्य च ॥ कर्कटास्थि घृतञ्चैव धूपनं सपैः सह। काकादनी चित्रफलां विम्बी गुञ्जाश्च धारयेत् ।। मत्स्यौदनञ्च कुति कृशरां पललं तथा। शरावसम्पुटे कृता बलिं शून्यगृहे हरेत् ॥ उच्छिष्टेनाभिषेकेण शिरसि स्नानमिष्यते। पूज्या च पूतना देवी बलिभिः सोपहारकः॥ मलिनाम्बरसंवीता मलिना रुक्षमूर्द्धजा। शून्यागाराश्रिता देवी दारकं पातु पूतना॥ दुद्दर्शना सुदुर्गन्धा कराला मेघकालिका । भिन्नागाराश्रया देवी दारकं पातु पूतना ॥५॥ __ अथातोऽन्धपूतनाप्रतिषेधं व्याख्यास्यामः। तिक्तकद्रुमपत्राणां कार्यः काथोऽवसेचने। सुरा सौवीरकं कुष्ठं हरितालं मनःशिला। तथा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy