SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दम अध्यायः } शारीरस्थानम् । २१२६ सति सम्भवेऽन्येषां तान्येव सुप्रक्षालितोपधानानि सुधूपि - तानि & शुद्धानि शुष्काणि योगं गच्छेयुः ॥ ५४ ॥ धूपनानि पुनर्वाससां शयनास्तरणप्रावरणानाञ्च यवसर्षपातसीहिङ्ग गुग्गुलुव चाचोरकवयःस्थागोलोमीजटिलापलङ्कषाऽशोकरोहिणीसर्पनिकाणि घृतयुक्तानि स्युः । मणयश्च धारणीयाः कुमारस्य, खड़ गरुरुगव्यवृषभाणां जीवतामेव दक्षिणेभ्यो विषाणेभ्योऽयाणि गृहीतानि स्युः । ऐन्द्राद्याश्रौषधयो जीवकर्षभकौ च यानि चान्यान्यपि ब्राह्मणाः प्रशंसेयुरथर्ववेदविदः ॥ ५५ ॥ दुपसृष्टानि च शयनादीनि वर्ज्यानि स्युः । यस्य शयनादीनि बहूनि न सन्ति तस्य विधानमाह—असति सम्भवे इत्यादि । अन्येषां स्वेदादिमूत्रादियुक्तानि शय्यादीन्येकविधानि त्यक्त्वान्येषां सम्भवे वसति तान्येव स्वेदादिमूत्रादियुक्तानि शय्यादीनि सुप्रक्षालितादीनि योगं गच्छेयुः ॥ ५४ ॥ गङ्गाधरः ननु कैधूपयेदित्यत आह-धूपनानीत्यादि । यवादीनां सर्पनिकान्तानां चर्ण कृत्वा घृतेन प्रक्षयित्वा वस्त्रशय्यादीनां धूपनं कार्यमित्यथेः । गुग्गुलुर्महिपाक्षगुग्गुलुः । पलङ्कषा साधारणगुग्गुलुः । चोरकचोरपुष्पी । गोलोमी गोडुम्बा । जटिला जटामांसी। रोहिणी कटुरोहिणी । मणयश्चेत्यादि । मणयश्च धारणीयाः यस्य ये सम्भवन्ति । तथा खड्गः खड़ गिनामा पशुः । रुरुः स्वल्पहरिणः । गवयः गोसदृशः पशुभेदः । वृषभोनान । जीवतामेषां दक्षिणशृङ्गाग्राणि च्छित्त्वानीय कुमारस्य धारणीयानि Acharya Shri Kailassagarsuri Gyanmandir चक्रपाणिः - सुप्रक्षालितोपधूपितानीति सुधौतोत्तरप्रच्छादनानि । शुद्धशुष्काणीति धौतान्यपि या मलादिरागेणापि रहितानि भवन्ति शुष्काणि च तदैवोपयोज्यानि । सुधौतं ह्यामपि स्यात् तथा गादागमलादिभावितं धौतमप्यशुद्धं स्यात्, तस्मादुक्तम् शुद्धशुष्काणीति ॥ ५३/५४ ॥ * चक्रपाणिः- वयःस्था ब्राह्मी, गोलोगी श्वेतदूर्वा । जटिला मांसी । अग्राणि धारणीयानि स्युरिति योजना । उक्तं हि जतूकर्णे- "रुरुखड़ गादीनां जीवतां दक्षिणशृङ्गाप्राणि निकृत्तानि धारयेत्। " जीवकर्षभकौ प्रजास्थापनोक्तौ । मन्त्राश्वाथर्ववेदोक्ताः ऐन्द्राद्या दश । सुप्रक्षालितोपधानानि सुधूपितानि इत्यत्र सुप्रक्षालितोपधूषितानि इति चकघृतः पाठः । २६७ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy