SearchBrowseAboutContactDonate
Page Preview
Page 966
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टम अध्यायः ] शारीरस्थानम् । २१२७ धात्री तु यदा खादुबहुलशुद्धदुग्धा स्यात् तदा स्नातानुलिप्ता शुक्लवस्त्रं परिधाय ऐन्द्रीं ब्राह्मीं शतवीय्यीं सहस्रवीर्य्याम अमोघामव्यथां शिवामरिष्टां वाटापुष्पों विष्वक्सेन कान्तामिति विभ्रत्योषधीः कुमारं प्राङ्मुखं प्रथमं दक्षिणं स्तनं पाययेत् । इति धात्रीकर्म्म ॥ ५२ ॥ गङ्गाधरः - अथ दशमाहानन्तरं नामकर्म्मणि कृते स्तन्यपानविधिमाहधात्री खित्यादि । ऐन्द्राद्योषधीविभ्रती धात्री कुमारं प्राङ्मुखं मन्त्रोपमन्त्रितं दक्षिणं स्तनं प्रथमं पाययेत् ततः परं वामम् । सुश्रुतेऽप्युक्तम्- ततो यथावर्ण धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयसमरोगां शीलवतीमचपलामलोलुपाम् अकृशामस्थूलां प्रसन्नक्षी रामलम्बोष्ठीमलम्बोद्ध स्तनीमव्यङ्गामव्यसनिनीं जीववत्सां दोग्धी वत्सलामक्षद्रकर्मिणी कुले जातामतो भूयिष्ठश्च गुणैरन्वितां श्यामाम् आरोग्यबलवृद्धये बालस्य । तत्रोद्ध स्तनी करालं कुर्य्यात्। लम्बरतनी नासिकामुखं छादयित्वा मरणमापादयेत् । ततः प्रशस्तायां तिथौ शिरः स्नातम् अहतवास समुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य दक्षिणं स्तनं धौतमीपत्परिस्रं तमभिमत्रा मन्त्रेणानेन पाययेत् । " चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः । भवन्तु सुभगे नित्यं बालस्य बलबुद्धये । पयोऽमृतर पीला कुमारस्ते शुभानने । दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥" अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्याच्याधिजन्म भवति । अपरिस्र तेऽप्यतिस्तव्धस्तन्यपूर्णस्तनपानादुत्स्र हितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः । तस्मादेवं विधानं स्तन्यं न पाययेत् । क्रोधशोकावात्सल्यादिभिश्च स्त्रियाः स्वन्यनाशो भवति । अथास्याः क्षीरजननार्थं सौमनस्यमुत्पाद्य यवगोधमशालिषष्टिकमांसरससुरासौवीरक पिण्याकलसुन मत्स्यकशेरुकशृङ्गाटकविसविदारिकन्दमधुकशतावरीनलिका लावू कालशाकप्रभृतीनि विदव्यात् । दीनां बहुत्वापत्यविशेषः कर्त्तव्य इत्यर्थः । तत्तद्विधानं काय्यै स्यादिति सम्बद्धदोपप्रतिकूलमाहारविधानं कार्य्यं स्यात् । कपायाणामिति बहुवचनात् व्यस्तसमस्तानां कषाया गृह्यन्ते । क्षीरिण्यश्व frontofrera दृश्य पानक्षीराः । अमोघादयोऽनन्तरं व्याकृताः, अन्यथा गुड़ ची ॥४९-५२ ॥ ! For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy