SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२४ चरक-संहिता। जातिसूत्रीयं शारीरम् अविरूपामजुगुप्सां देशजातीयामक्षुद्राम् अक्षुद्रकर्मिणी कुले जातां वत्सलामरोगजीवदवत्सां पुंवत्सां दोग्ध्रीमप्रमत्ताम् अशायिनीमनुच्चारशायिनीमनन्तावशायिनी कुशलोपचारां शुचिमशुचिद्वेषिणी स्तनस्तन्यसम्पदुपेतामिति ॥ ४७॥ तत्रेयं स्तनसम्पत्-नात्यूद्धौ नातिलम्बावनतिकृशावनतिपीनी युक्तपिपलको सुखप्रपाणौ चेति। स्तन्यसम्पत् तु प्रकृति---वर्णगन्धरसस्पर्शम् उदपात्रे च दुह्यमानं दुग्धमुदकं व्येति प्रकृतिभूतत्वात् तत् पुष्टिकरमारोग्यकरञ्चेति। अतो. ऽन्यथा व्यान्नं ज्ञेयम् ॥४८॥ क्रोधादिदोषरहिताम् अविरूपामविकटरूपाम् अजुगुप्सां परनिन्दाऽनभिधायिनी देशजातीयां समानदेशजत्वेन सप्रकाराम्। अक्षुद्राम् अक्षद्वस्वभावाम् । न वा क्षद्रकर्मिणी क्षद्रकर्माकरीम् । कुले जातां सतां ब्राह्मणादीनां कुले जातामपि स्थितां, न तु दुःशीलादिष्वकुलेषु जाताम् । वत्सलां वात्सल्यवतीम् । अरोगजीवद्वत्साम् अरोगो जीवंश्च वत्सः स्वपुत्रो यस्याः सा। पुवत्सां पुत्रवत्सां न तु कन्यावत्साम् । दोग्धौं स्वयंप्रवृत्तदुग्धवतीम् । अप्रमत्तामपापवतीम्। अशायिनीमकाले चादेशे चाशयनशीलाम्। अनुच्चारशायिनीम् उच्चारोऽमेध्यदेशस्तत्राशयनशीलां मेध्यदेशे शयनशीलामित्यर्थः। अनन्तावशायिनीम् अन्तावशायिनी पतितब्राह्मणीप्रभृतिरुच्यते तद्भिन्नाम् । कुशलोपचारां भद्रोपचरिताम् ॥४७॥ गङ्गाधरः--ननु कीदृशी स्तनस्तन्ययोः सम्पदित्यत आह-तत्रेयमित्यादि । युक्तपिप्पलको स्तनानुरूपन्तयुक्तस्तनगुड़की। स्तन्येत्यादि। प्रकृतयोऽविकृताः स्वाभाविका वर्णगन्धरसस्पर्शा यस्य तत् स्तन्यं सम्पदुपेतम्। तस्य परीक्षाप्रकारमाह--उदपात्रे चेत्यादि । दुग्धं स्तन्यदुग्धम् उदकं व्येति उदकं व्ययं कृता वृद्धयोरसम्पूर्णाङ्गक्षीणधातुत्वेन निरस्यति । निभृतामिति विनीताम् । अविरूपामिति अविकृतावयवाम् । अव्यङ्गामिति अहीनाङ्गीम्। देशजातीयां समानदेशजाम्। अनन्त्यावशायिनीमिति शूद्रस्य हि सवर्णत्वे चाण्डालादिस्त्री च प्रशस्ता, सा न निषिध्यते, ब्राह्मणादीनामसवर्णत्वेनैव सा * प्रकृतेति वा पाठः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy