SearchBrowseAboutContactDonate
Page Preview
Page 954
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः शारीरस्थानम्। २११५ परूषकशाखाभिरस्या गृहं भिषक समन्ततः परिवारयेत् । सर्वतश्च सूतिकागारस्य सर्षपातलीतण्डुलकणकणिकाः छ प्रकिरेत्। तथा तण्डुलबलिमङ्गलहोमः सततमुभयकालं क्रियेत प्राङ नामकर्मणः । द्वारे च मुषलमनुतिरश्चीनं न्यस्तं कुर्य्यात्। वचाकु ठनीमकहिङ्गसर्षरातसीलसुनकणकणिकानां रक्षोनसमाख्यातानाञ्चौषधीनां रोट्टलिकां बद्धा सूतिकागारस्योत्तरदेहल्यामवसृजेत्, तथा सूतिकायाः कण्ठे सपुत्रायाः, स्थाल्युदकुम्भपर्यष्वपि, तथैव द्वयोरपक्षयोः। सकणकुम्भकेन्धनाग्निस्तिन्दुककाष्ठेन्धनश्चाग्निः सूतिकागारस्याभ्यन्तरतो नित्यं स्यात्। स्त्रियश्चैनां यथोक्तगुणाः सुहृदश्चानुजाय्युः दशाहं द्वादशाहं वा अनुपरतप्रदानमङ्गलाशीः स्तुतिगीतवादित्रमन्न. त्यादि। आदानी देवदानी घोषकभेदः। अस्याः सूतिकाया गृहं समन्ततः चतुर्दिक्षु। मूतिकागारस्य सर्वतश्चतुर्दिक्षु मध्यतश्च सर्षपादीन् प्रकिरेत् प्रक्षिपेत् । तण्डुलानां क्षुद्रतरकणाः कणः, क्षुद्रकणाः कणिकाः। तण्डलबलिमङ्गलहोमस्तण्डुलबलिना मङ्गलहोम उभयकालं सायं प्रातश्व क्रियत। पाङ् नामकर्मण अशौचान्तदिनपय्यन्तम् । मुषलम् अनुतिरश्चीनं तिरोभावेण न्यस्तं कुर्यात् । वचादीनां तथान्येषामपि गुगगुल्वादीनां रक्षोनसमाख्यातानामोषधीनां वस्त्रे पोटली बद्धा उत्तरदेहल्यामुत्तरप्राङ्गणे द्वारोपरि अवसृजेत् रक्षेत्। मूतिकायाः पुत्रस्य च कण्ठे तस्य पोट्टली बनीयात् । स्थाल्यादिषु च रक्षेत् तस्य पोट्टली, द्वारपक्षयोः द्वारपार्श्वयोर्द्वयोश्च पोट्टलीद्वयं रक्षेत्। मूतिकागारस्याभ्यन्तरतो नित्यं कणस्तण्डुलकणः, कुम्भ उदकुम्भः, इन्धनं काष्ठमनिस्तैः सहितः स्यादमिश्च तिन्दुककाष्ठेन्धनः स्यात् । स्त्रियश्च इत्यादि। अनुजागृयुर्जागरणम् एनामनु लक्ष्यीकृत्य कुयुः। अनुपरतानि तण्डुलबलिहोमः कियत्कालं कर्त्तव्य इत्याह-आ नामकर्मण इति । दशाहं यावदित्यर्थः, दशाहे तु नामकर्म भविष्यतीति । जतूकर्णेऽप्युक्तम्-'तण्डुलबलिहोमो द्विकालमा दशमाहम्" इति । * सर्वपातसीकणकणिकाः तथा तण्डुलबलिहोम इति चक्रः। आ नामकर्मण इति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy