SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A २११० चरक-संहिता। जातिसूत्रोथ शारीरम् भूर्जपत्रकाचमणिसर्पनिम्मोकैः चास्या योनिं धूपयेत्। कुष्ठतालीशकल्कं वल्धजयूषे मैरेयसुरामण्डे वा कौलत्थे वा मण्ड क. पिपलीक्वाथ वा संप्लाव्य तथा पाययेदेनाम् ॥ ३८ ॥ ___ तथा सूक्ष्मैलाकिलिमकुष्ठनागरविडङ्ग-कालविड़गुड़-चव्यपिप्पलीचित्रकोपकुञ्चिकाकल्कं, खरवृषभस्य जरतो वा दक्षिणं कर्णमुत्कृत्य दृषदि जर्जरीकृत्य वल्वजयूषादीनामन्यतमे प्रक्षिप्याप्लाव्य मुहूर्त्तस्थितमुद्धृत्य तदाप्लावनं पाययेदेनाम्। शतपुष्पाकुष्ठहिङ्गमदनसिद्धस्य चैनां तैलस्य पिचं ग्राहयेत् । ततश्चैवानुवासयेदेतैरेव चाप्लावनैः फलजीमूतकेक्ष्वाकूधामार्गवकुटजकृतवेधनहस्तिपर्णोपहितैरास्थापयेत्। तदास्थापनम् अस्या हि सह वातमूत्रपुरीषैनिहरत्यमरामासक्तां वायोरनुलोमयोजयेत् । भूज्जत्यादि। काचमणिः काच एव। कुष्ठत्यादि। वल्वजयूषे ऊलूयाघासस्य वीजविदलकाथे। मण्डूकः मण्डूकपर्णीः॥३८॥ गङ्गाधरः-तथेत्यादि। किलिमो देवदारु। कालविड़ा बिटलवणम् । गुड़: पुराणगुड़ः । उपकुञ्चिका कृष्णजीरकम् । खरेत्यादि। खरषभस्य पुंगद्देभस्य चण्डबलीवस्य जरतो वृद्धस्य मृतस्य दक्षिणं कर्ण वा उत्कृत्य कत्तेनं कृखा जर्जरीकृत्य कुट्टयिता वल्वनकाथायन्यतमे मुहर्त स्थितं तं कल्कं कर्ण वा तदाप्लावनं बल्वजयूषादिकं पाययेदेनामित्यर्थः । शतपुष्पेत्यादि । शतपुष्पादिकल्केन तैलपादिकेन तेषां काथेन सिद्धस्य चतुर्गुणजलेन वा पकस्य तैलस्य पिचुतूलकम् एनाम् अप्रपन्नामरां प्रसूतां योनौ ग्राहयेत् । तत इति पिचुग्रहणानन्तरं तेन तैलेन अनुवासयेत्। एतैरेव च वल्वजयषादिभिराप्लावनैः फलादिकल्कोपहितैः आस्थापयेत् । फलं मदनफलम्। जीमूतधामार्गवो घोषकप्रभेदो। इक्ष्वाकूस्तिक्तालाबूः । कृतवेधनं ज्योस्निका। हस्तिपर्णी मोस्टः । आस्थापनकाह-तदास्थापनमित्यादि । निर्हरति वहिष्करोति । ननु वातमूत्रादिसहितां कथममराम् बालवेणी। वल्वजयूषो वल्वजक्काथः । मण्डूकपिप्पली मण्डूकपर्णी। किंवा मण्डूको मण्डूकर्णी, पिप्पली पिप्पल्येव, तयोः। वल्वजयूषादौ सूक्ष्मैलादीनां पानं विधीयते। खरवृषभश्चण्ड * निर्मोकरित्यत्र निम्मोकधूमः, मण्डे इत्यनन्तरं तीक्ष्णे, क्वाथे इत्यत्र सम्पाके, कालविड़गुड़ेत्यत्र कालागुड़तः, हस्तिपर्णीत्यत्र हस्तिपिप्पलीति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy