________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
शारीरस्थानम् ।
२१०१ रौषधसिद्धम, तदेव सप्तमे मासे। तत्र गर्भस्य केशा जायमाना मातुविदाहं जनयन्तीति स्त्रियो भाषन्ते, तन्नेति भगवानात्रेयः । किन्तु गर्भोत्पीडनाद वातपित्तश्लेष्माण उरः प्राप्य विदहन्ति । ततः कण्डूरुपजायते, कण्डूमूला च किकशावाप्तिर्भवति। तत्र कोलोदकेन नवनीतस्य मधुरौषधसिद्धस्य पाणितलमात्रमस्यै पातु दद्यात्। चन्दनमृणालकल्कैश्चास्याः स्तनोदरं विमृगीयात्। शिरीषधातकीसर्षपमधुकचणैः कुटजाजकवीजमुस्तहरिद्राकल्कैर्वा, निम्बकोलसुरसमञ्जिष्ठाकल्कैर्वा, पृषद्धरिणशशरुधिरयुतया त्रिफलया वा, करवीरकपत्रसिद्धेन वा तैलेनाभ्यङ्गः । परिषेकः पुनर्मालतीमधुकसिद्धेनाम्भसा। जातकाड्या च
क्षीरोत्थं घृतं, न तु दध्युत्थम् । षष्ठे इत्यादि--मधुरं काकोल्यायौपधक्काथकल्काभ्यां चतुगुणपादिकाभ्यां सिद्धं क्षीरसर्पिः क्षीरोत्थं सपिनं तु दध्युत्थम्। तदेवेति मधुरौषसिद्धं क्षीरसपिरेव सप्तमे मासे। सर्वत्र सात्म्यमेव च भोजनं सायं प्रातर्भुञ्जीतेति योज्यम् । तत्रेत्यादि । तत्र सप्तमे मासे । सर्च स्पष्टम् । किक्कशावाप्तिश्चम विदरणावाप्तिः। तत्रेत्यादि। कोलोदकेन शुष्कवदरफलकाथेन चतुगुणेन मधुरौपधानां काकोल्यादीनां कल्केन नवनीतात् पादिकेन सिद्धस्य पक्कस्य नवनीतस्य गव्यस्य पाणितलमात्रं कर्षप्रमाणम्। चन्दनादीनां कल्क दनीयात् । शिरीषादिरेको योगः कुटजाद्यपरः। कुटजस्यार्जकस्य तुलस्याश्च वीजम् । तृतीयस्तु निम्बादिकल्कः । चतुर्थः पृषदादिः। पृषत् क्षुद्रहरिणः । त्रिफलया हरीतकी विभीतक्यामलकीति त्रयी त्रिफला तया कल्करूपया प्रकरणात् स्तनोदरं मृदनीयादित्यस्य सवेत्रान्वयः। पञ्चमः करवीरकपत्रेत्यादि। करवीरकपत्रकल्कः पादिकस्तेन चतुर्गुणेन जलेन च पक्कन तैलेन। परिषेक इत्यादि।. मालत्यादिभिरनुरूपैः कल्कः सिद्धेनाद्धेशृतेन
चक्रपाणिः-गर्भस्य प्रतिमासिकं कर्माह-परमत इत्यादि। तन्नेति भगवानात्रेय इति युगपदेव तृतीये मासेऽङ्गप्रत्यङ्गनिष्पत्तेः केशा अपि तदैव जाताः क्रमेण वर्द्धन्ते, न सप्तमे मास इति भावः। अथ कथं तर्हि सप्तमे विशेषेण कगर्भवतीत्याह - गर्भोत्पीड़नाद्रीत्यादि । किक्विशः
For Private and Personal Use Only