SearchBrowseAboutContactDonate
Page Preview
Page 926
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टम अध्यायः शारीरस्थानम्। २०८७ मातृजैरपाचारैर्व्याख्याताः। इति गोपघातकरा भावा व्याख्याताः ॥ १६॥ तस्मादहितानाहारविहारान् प्रजासम्पदमिच्छन्ती विशेषण वर्जयेत्। साध्वाचारा चात्मानमुपचरेद्धिताभ्यामाहारविहाराभ्यामिति ॥ १७॥ पितृजास्वित्यादि। शुक्रदोषा इत्यनेन यावत् पितुरपचारः शुक्रं न दूषयति, तावदपचारो न गर्मोपघातायोपपद्यते इति ख्यापितम् । मातृः अपचारैरुक्तयों मातुरपचारैर्ग पघातः पितुरपि तैरपचारैर्दुष्टशुक्रं यं गर्भमारभते स गर्भ उपहन्यते इत्यर्थः ॥ १६॥ गङ्गाधर-तस्मादिति। गौपघातात् । अहितान् उक्तानाहारविहारान् अपरांश्च तत्रान्तरोक्तान् पुरुषो विशेषेण स्त्री च वर्जयेत् । साध्वाचारा चेतिगभिणी प्रथममासात् प्रभृति साध्याचारा च मङ्गलशान्तिदेवताब्राह्मणगुरुपरा नित्यं प्रहृष्टा शुचिरलङ्क ता शुक्लवसना च सती हिताभ्यामाहारविहाराभ्याम् आत्मानमुपचरेदिति। सुश्रुतेऽप्युक्तं-गर्भिणी प्रथमदिवसात् प्रभृति नित्यं प्रहष्टा शुच्यलङ्क ता शुक्लवसना शान्तिमङ्गलदेवताब्राह्मणगुरुपरा च भवेत् । मलिनविकृतहीनगात्राणि न स्पृशेत् । दुर्गन्धदुईर्शनानि परिहरेदुवै जनीयाश्च कथाः। शुष्कं पय्युषितं कुथितं क्लिन्नश्चान्नं नोपभुञ्जीत। वहिनिष्क्रमणं शून्यागारं चैत्यश्मशानवृक्षाश्रयान् क्रोधभयसङ्करांश्च भावानुच्चैर्भाष्यादिकं परिहरेत्, यानि च गर्भ व्यापादयन्ति । न चाभीक्ष्णं तैलाभ्यङ्गोत्सादनादीनि निषेवेत। न चायासयेच्छरीरं, पूचोक्तानि च परिहरेत्। शयनासनं मृद्वास्तरणं नात्युच्चमपाश्रयोपेतमसम्बाधं विदध्यात्। हृद्य द्रवं मधुरमायं स्निग्धं दीपनीयं संस्कृतश्च भोजनञ्च भोजयेत् । सामान्यमेतत् आप्रसवात्। रक्तपित्तादियुक्त इत्यादि। ये तु हेतुसदृशविकारा गर्भस्य दृश्यन्ते, यथा गोमांसेन शर्कराइमरीत्यादि, तेऽपि द्रव्यप्रभावादेव ज्ञेयाः। यद्यपि गर्भग्रहणात् प्रागपि स्त्रियापि अपथ्यसेवार्सवदुष्टिद्वारा गभ विकारं जनयति, तथा पुरुषस्यापथ्यसेवाशुक्रदुष्टिद्वारा गर्भ दुप्टिं जनयतीति इहैव "पितृजास्तु" इत्यादिना ग्रन्थे वक्तव्यम्. तथापि गृहीतगर्भाया एव स्त्रिया अपचाराविशेषणाव्यवधानाद गर्भदुष्टिकरा भवन्तीति कृत्वा तत् तदासेवमानान्तर्वत्रीत्यादुधक्तम् । मातृजैरपचारैाख्याता इति मातुरपचारानुरूपा गर्भध्याधयो भवन्ति, एवं पितुरपि व्यवायात् प्रागपचारेणेह शुक्रदृष्टयपचारानु For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy