SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्य अध्यायः निदानस्थानम्। १२६६ तस्मिन् प्रमाण तिवृत्ते पित्तं प्रकुपितं शरीरमनुस्मृप्य यदैव यकृतप्लीहप्रभवाणां लोहितबहानाञ्च स्रोतसां लोहिताभिष्यन्दगुरूणि मुखान्यासाद्य प्रतिपद्यते, तदैव लोहितं प्रदूषयति, तल्लोहितसंसर्गात् लोहितप्रदूषणालोहितवर्णगन्धानुविधानाच पित्तं लोहितपित्तमाचक्षते ॥ २॥ रक्तस्य वृद्धिर्भवति । रसधातुपरिणामे परिमाणेनाधिकं भवति रक्तम् । सुश्रुते. ऽप्युक्तं-क्रोधशोकमयायास-विरुद्धानातपानिलान् । कटुम्ललवणक्षार तीक्ष्णोष्णातिविदाहिनः। नित्यमभ्यस्यतो दुष्टो रसः पित्तश्च कोपयेत् । विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणित मिति। इति निदानमुक्त्वा विधिरूपां सम्प्राप्तिमाह-तस्मिन्नित्यादि। तस्मिन् लोहिते प्रमाणातिवृत्ते परिमाणादतिशयेन वृत्ते प्रकुपितं पित्तं यदा शरीरमनुसृप्य यकृतप्लीहप्रभवाणां यकृतप्लीहाख्ये द्वे नाड्यौ रक्तोत्पत्तिस्थाने दक्षिणवामपावस्थे ताभ्यां प्रभवाणां तयोः प्रतानरूपाणां तयोः स्थितस्य रक्तस्य वहनानां स्रोतसां नाड़ीनां मुखानि वृद्ध लोहिताभिष्यन्देन गुरूणि आसाद्य आगत्य प्रतिपद्यते प्राप्नोति, तदा लोहितं प्रदूषयति । एतेन वक्ष्यमाणस्योद्ध प्रतिपद्यमानस्य रक्तस्य यकृतप्लीहप्रभवेभ्य ऊर्तगामिभ्यः स्रोतोभ्यश्च्यवनमामाशयस्थस्याधोगामिभ्यः स्रोतोभ्योऽधः प्रतिपद्यमानस्य च्यवनमुभयतः प्रतिपद्यमानस्योभयेभ्यः स्रोतोभ्यश्च्यवनम् । मुश्रुते-ततः प्रवर्तते रक्तमद्धश्चाधो द्विधापि वा। आमाशयाद ब्रजेदर्द्धमधः पकाशयाद ब्रजेन्। विदग्धयो योश्थापि द्विधा मार्ग प्रवर्तते । केचित् सयकृतः प्लीह्नः प्रवदन्त्यसनो गतिमिति । _ निरुक्तिमाह-तदित्यादि। लोहितरागस्यानुविधानाच्चेति लोहितवर्ण लोहितगन्धं स्वं विधाय प्रवर्तनात् लोहितस्य वर्णगन्धानुवर्णगन्धौ स्वस्य विधा. सम्बध्यते ; स्वप्रमाणमतिवर्त्तते प्रबद्धत इत्यर्थः ; यदेवेत्यनेन, एवमपि कुपितस्य पित्तस्य य एवांश उक्तसम्प्राप्तिमान् भवति, स एव रक्त दूषयति, नान्य इति दर्शयति । लोहिताभिष्यन्दगुरूणि प्रवृद्धलोहितस्यन्देन गुरूणि उत्सन्नानि विवृतानीति यावत् ; प्रतिरुन्ध्यात् वृद्धन शोणितेन इति शेषः ; प्रतिपद्यत इति पाठपक्षे तु शोणितमिति शेषः, शोणितं प्रतिपद्यत इत्यर्थः। यकृत् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy