SearchBrowseAboutContactDonate
Page Preview
Page 919
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८० चरक-संहिता। जातिसूत्रीयं शारीरम् यथा हि वीजमनुपतप्तमुप्तं स्वां स्वां प्रकृतिमनुविधीयते ब्रीहिर्वा व्रीहित्वं यवो वा यवत्वम्, तथा स्त्रीपुरुषावपि यथोक्तं हेतुविभागमनुविधीयते। तयोः कर्मणा वेदोक्तन विवर्त्तनम् शुक्रवरूपं विहाय क्षीरस्याभिसन्धानदधिभाववत् स्वाभिसन्धानातवभावम् आपद्यते इति चेत् न, दनाभिषुतमित्यत्र दध्नेति पदं येन सन्धीयते यत्तद्वयं सन्धानभावमापद्यते इति ख्यापनार्थ प्राधान्येनोपलक्षणान्न तु दधिमात्र, तेन तक्राद्यम्लद्रव्येणाप्यभिपुतं क्षीरं स्वभावं विहाय तदुभयं दधिभावमेवापद्यते न तु तक्रायम्लद्रव्यभावं, तद्वदेव शुक्रं शोणिताभिषुतं तद्वयं गर्भभावमापद्यते विहाय शुक्रभावमित्यर्थः । एवमभिनिवर्तमानस्येत्यादि। एवमुक्तपकारेणोत्पद्यमानस्य गर्भस्य सद्योगृहीतगर्भलक्षणं व्यक्तगर्भलक्षणश्च पूर्वमुक्तम्। सुश्रुतेऽपितत्र सद्योगृहीतगर्भाया लिङ्गानि। श्रमो ग्लानिः पिपासा सक्थिसदनं शुक्रशोणितयोरवबन्धः स्फुरणश्च योनः। स्तनयोः कृष्णमुखता रोमराज्युदगमस्तथा। अक्षिपक्ष्माणि चाप्यस्याः संमील्यन्ते विशेषतः॥ अकामतश्छद्दयति गन्धादुद्विजते शुभात् । प्रसेकः सदनञ्चापि गर्भिण्या लिङ्गमुच्यते ॥ तदाप्रभृत्येव व्यायामं व्यवायमपतर्पणमतिकर्षणं दिवास्वप्नं रात्रिजागरणं शोक यानारोहणं भयमुत्कटुकासनञ्चैकान्ततः स्वेदादिक्रियां शोणितमोक्षणश्चाकाले वेगविधारणश्च न सेवेत। दोषाभिघातैगर्भिण्या यो यो भागः प्रपीड्यते। स स भागः शिशोस्तस्य गर्भस्थस्य प्रपीड्यते ॥ इति। तथा, तथोक्तरूपेणाभिनिवर्तमानस्य गर्भस्य स्त्रीपुरुषत्वे हेतुः पूर्वमतुल्यगोत्रीये रक्तेन कन्यामधिकेन पुत्रं शुक्रणेत्यनेनोक्तः॥१२॥ गङ्गाधरः-स च स्त्रीपुरुषवहेतुः कीदृशत्वेनोक्तः किमेकान्ततोऽप्रतिहननीयत्वेन किं कारणान्तरेण प्रतिहननीयत्वेनेत्याशङ्कयाह---यथा हीत्यादि। अनुविधीयते स्वस्वप्रकृत्यनुरूपेणाङ्क रभावमापद्यते । तद् विवृणोति-त्रीहिरित्यादि । तथास्त्रीपुरुषयोरपिस्त्रीत्वे हेतुः शोणिताधिक्यं पुरुषत्वे हेतुः शुक्राधिक्यं नपुंसकत्वे द्वयोः साम्यम् इति। यथोक्तं हेतु विभाग स्त्रीहेतुः शोणिताधिक्यं स्त्रीखमनुविधीयते। निर्वर्त्तयति। शुक्रं यथोक्तशुकमित्यर्थः। सम्प्रति स्त्रीपुरुषत्वे च रक्ताधिकत्वं शुकाधिकत्वञ्च पूयोक्तं हेतुमनृद्य वैदिकं पुत्रजन के विधानान्तरं वक्तुमाह-एवमित्यादि ॥ ११॥१२॥ चक्रपाणिः-यथोक्तं हेतुविभागमनुविधीयत इति "रक्तेन कन्यामधिकेन पुत्रम् । शुक्रेण" For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy