SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०७२ चरक-संहिता। जातिसूत्रीय शारीरम् तत ऋत्विक् प्रागुत्तरस्यां दिश्यगारस्य प्राकतवन--मुदक्प्लवनं वा देशमभिसमीक्ष्य गोमयोदकाभ्यां स्यण्डिलमुपसंलिप्य प्रोक्ष्य चोदकेन वेदीमस्मिन् स्थापयेत् । तां पश्चिमेनाहतवस्त्रसञ्चये श्वेतार्षभे वायजिन उपविशेत् ब्राह्मणप्रयुक्तः, राजन्यप्रयुक्तस्तुवैयाघ्र चर्मण्यानडुहे वा, वैश्यप्रयुक्तस्तु रौवे वास्ते वा। तत्रोपविष्टः पालाशीभिरैनादीभिरौडम्बरीभिः माधूकीभिर्वा समिद्भिरग्निमुपसमाधाय कुशैः परिस्तीर्य्य परिधिभिश्च परिधाय लाजैः शुक्लाभिश्च गन्धवतीभिः सुमनोभिः उपाकिरेत्। तत्र प्रणीयोदपात्रं पवित्रं पूतमुपसंस्कृत्य सर्पिराज्यार्थं यथोक्तवर्णानाजानेयादीन् समन्ततः स्थापयेत् ॥८॥ गङ्गाधरः-तत इत्यादि । तत ऋखिक जलप्लवनानन्तरं याजकः । अगारस्य प्रागुत्तरस्यां पूर्वादिदिग्धागे क्रपेणावरायां दिशि प्राकप्लवनं पूर्वस्यां दिशि निन्नतया जलं यथा प्लबते तम्, उदकप्लवनम् उत्तरस्यां दिशि चोदकं प्लवते यथा तं देशम् । तां वेदी पश्चिमेन पश्चाददशे अहतवस्त्रसञ्चये नववस्त्राणि बहुलपटलीकृत्य आसनं रचयित्वा तत्र उपविशेत्। श्वेतार्षभे वा शुक्लषभस्य वाप्यजिने चम्मेणि उपविशेत् । ब्राह्मणप्रयुक्त ऋखिक ब्राह्मणनियोगेन प्रत्त ऋषिक् । राजन्यप्रयुक्तस्तु क्षत्रियेण नियुक्तस्तु वैयाघ्र व्याघ्रस्य चर्मणि आन/हे वाष वा चर्मणि उपविशेत्। वैश्यप्रयुक्तस्तु वैश्येन पुत्रार्थ नियुक्तस्तु ऋतिक रौरवे हारिणे चर्माणि वास्ते च्छागे वा चर्मण्युपविशेत् । तत्र यथोक्ते चर्मणि। अग्निमुपसमाधाय वेद्यामग्निं संस्थाप्य कुशैः परिस्तीय्ये चतुहिक्षु कुशानास्तीय परिधिभिः पलाशादिशाखासमिद्भिः परिधाय इष्ट्वा लाजैरुपकिरेत् जुहुयात्, शुक्लाभिर्गन्धवतीभिः सुमनोभिः पुष्पैचोपाकिरेत्। ततस्तत्र होमस्थाने पवित्रं स्वभावतो विशुद्धं पूतं चक्रपाणिः- स्थण्डिलं पूजनस्थानम् । वेदी पिण्डिकाम् । ता पश्चिमेनेति वेदिकायाः पश्चिमे। श्वेत आर्षभे अजिने श्वेतवृषभचमणीत्यर्थः। ब्राह्मणप्रयुक्त इति यदि ब्राह्मणेन पुढेष्टवर्थ वा प्रयुक्तः स्यात्, तदा ऋत्विक श्वेतवस्त्रसञ्चये श्वेतवृषभचर्मणि वा उपविशेत् । राजन्यप्रयुक्तस्तु वर्गामति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy