SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अष्टमोऽध्यायः। अथातो जातिसूत्रीयं शारीरं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः॥१॥ स्त्रीपुसयोरव्यापनशुक्रशोणितगर्भाशययोः श्रेयसी प्रजा. मिच्छतोस्तन्निर्वृत्तिकर कम्र्मोपदेष्यामः। अथाप्येतौ स्त्री गङ्गाधरः-अथ शारीरं यावदुक्त्वा जन्मपकारोपदर्शनार्थ जातिसूत्रीयं शारीरमारभते--अथात इत्यादि। जातिर्जन्म तस्याः मूत्रमधिकृत्य कृतमिति जातिमूत्रीयम् ॥१॥ गङ्गाधरः--स्त्रीपुसयोरिति द्वन्द्व स्त्रियाः पूर्वनिपातः। द्वादशवर्षा स्त्री पञ्चविंशतिवर्षः पुमान्, न खतो न्यूनवयसोः स्त्रोपुसयोरव्यक्तार्त्तवत्वात् स्त्रियाः पुंसस्वदृढ़शुक्रवात् । उक्तश्च सुश्रुते-यथा हि पुष्पमुकुलस्थो गन्धो न शक्यमिहास्तीति वक्तु नैव नास्तीति। अथवास्ति सतां भावानामभिव्यक्तिरिति कृता केवलं सौक्ष्मप्रान्नाभिव्यज्यते, स एव गन्धो विवृतपत्रकेशरैः कालान्तरेणाभिव्यक्तिं गच्छति ; एवं वालानामपि वयःपरिणामात् शुक्रप्रादुर्भावो भवति। रोमराज्यादयोऽथात्तवादयश्च विशेषा नारीणां रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्यभिद्धिर्भवति । स एवान्नरसो वृद्धानां जरापक्कशरीरखान्न प्रीणनो भवतीति। यथासम्भवादव्यापनशुक्रवं पुसोऽव्यापनशोणितगर्भाशययोनिवं स्त्रियाः। गर्भाशयपदं योनावुपलक्षितम् । प्रजामपत्यम् । एतेन साधारणापत्यनिय त्तिकरकर्मणोऽवान्तरीयकखादुपदेश चक्रपाणिः--सम्प्रति पारिशेप्यात जातिसूत्रीयमुच्यते। 'जाति'शब्देन जन्मकारणमुच्यते, सस्य सूत्रं जन्मोपायकथनसूत्रम्, तदधिकृत्य कृतोऽध्यायः। स्त्रीपुसयोरिति क्रमनिर्देशं कृत्वा अध्यापनशोणितगर्भाशयशुक्रयोरिति निर्देशो यथाक्रमानुरोधात् यद्यपि युज्यते, तथाप्यत्र 'शुक्र पूर्व नियच्छति' इति न्यायमाश्रित्य क्रमभेदेन निर्देशः । श्रेयसी प्रजामिच्छतोरित्यत्र श्रेयसी प्रजा गुणवान् पुत्रो गुणवती च कन्याभिप्रेता। यतः अत्र कन्योत्पादविधानं लेशतः करिष्यति । तेन निर्गुणयोः कन्यापुत्रयोस्तथा नपुसकस्य गश्रेयस्त्वेन ब्युदासः। अन्ये पुत्रमेव श्रेयसी प्रजामाहुः। यतः अत्र सर्वम्, पुत्रमेवोद्दिश्य विधानं प्रायः करिष्यति। तदर्थाभिनिर्वृत्तिकरमिति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy