SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७म अध्यायः । शारीरस्थानम् । २०५६ तत्र यद विशेषतः स्थूलं स्थिरं मूर्त्तिमद् गुरुखरकठिनमङ्गं नखास्थिदन्तमांसचर्मवर्च केशश्मश्रुलोमकण्डरादि,तत् पार्थिवं गन्धो प्राणश्च। यद् द्रवसरमन्दस्निग्धमृदुपिच्छिलं रसरुधिरवसाकफपित्तमूत्रस्वेदादि, तदाप्यं रसो रसनश्च । यत् पित्तमुष्मा च यो या च भाः शरीरे, तत् सर्वमाग्नेयं रूपं दर्शनश्च । यदुच्छासप्रश्वासोन्मेषनिमेषाकुञ्चनप्रसारणगमनप्ररणधारणादि, तद् वायवीयं स्पर्शः स्पर्शनश्च। यद् विविक्तमुच्यते महान्ति चाणनि च स्रोतांसि, तदान्तरीक्षं शब्दः श्रोत्रश्च । यत् प्रयोक्तृ तत् तत् प्रधानम् बुद्धिर्मनश्च। इति शरीरावयवसंख्या यथास्थूलभेदेन अवयवानां निर्दिष्टा ॥११॥ गङ्गाधरः-अथोक्तत्वगादिषु मातृजलादिभेदेन पूर्वमुक्तं पाश्चभौतिकखम्, तदेव सामान्यतो भौतिकवं विशिनष्टि-तत्रेत्यादि। तत् पार्थिवमिति पृथिव्यधिकपाश्चभौतिकं, गन्धोऽपि घ्राणञ्चेन्द्रियं तादृशम्, अन्यथा गन्धविशेषो न स्यात् घ्राणस्यापीन्द्रियखं न स्वात्। यद द्रवेत्यादि। तदाप्यमित्यब्बहुलपञ्चभूतात्मकं, रसोऽपि तथा, अन्यथा विशेषो न तस्य स्यात्। रसनमपि तथा,न हीन्द्रियवरूपेण विशिष्टापूर्ववं केवलजलात्मकखे भवति । यत् पित्तमित्यादि । आग्नेयं तेजोऽधिकपञ्चभूतात्मकं, रूपं दर्शनञ्चेन्द्रियं तथावात्। यदुच्छासादिकं तद वायवीयं वायुप्रधानपञ्चभूतात्मकवायुकार्यम् । यद विविक्तं विरलवं छिद्रादिरूपं तदान्तरीक्षमाकाशात्मकं, शब्दश्चाकाशबहुलपञ्चभूतात्मकः स्वरुपो विशेषरूपात्, श्रोत्रश्चाकाशबहुलपाश्चभौतिकं सचेष्टवात् । निश्चेष्टस्याकाशस्य स्वमात्रात्मकखे तु न तथालं स्यात् । यत् प्रयोक्त मनःश्रोत्रादीनि च स्वस्वार्थ यत् प्रयुक्त यत् सत्त्वादिगुणाश्रित आत्मा प्रेरयति तद्गुणप्रधानं तत् । तदाश्रयणं बुद्धिर्मनश्च यदा यत् प्रयोक्त तदा तदगुणप्रधानं तद् गुणवदात्मप्रधानम् ॥ ११ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy