SearchBrowseAboutContactDonate
Page Preview
Page 889
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०५० चरक-संहिता। शरीरसंख्यानाम शारीरम् एवमेतानि पञ्च पेशीशतानि। सिरास्नायवस्थिपर्वाणि सन्धयश्च शरीरिणाम् । पेशीभिः संवृतान्यत्र बलवन्ति भवन्त्यतः॥ स्त्रीणान्तु चतुर्विंशतिरधिका। दश तासां स्तनयोः, एकैकस्मिन् पञ्च पश्च। यौवने तासां परिदृद्धिः। अपत्यपथे चतस्रस्तासां प्रसृते अभ्यन्तरतो वे । मुखाश्रिते वाह्य च प्रमृते द्वे । गर्भच्छिद्रसंश्रितास्तिस्रः। शुक्रा-वप्रवेशिन्यस्तिस्रः। चतस्र एव पित्तपक्काशयमध्ये गर्भाशयः, यत्र गर्भस्तिष्ठति। तासां बहलपेलवस्थूलाणुपृथवृत्तहस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशभावाः सन्धास्थिसिरास्नायुप्रच्छादका यथादेशं स्वभावत एव भवन्ति । भवति चात्र । पुंसां पेश्यः पुरस्ताद याः प्रोक्ता लक्षणमुष्कजाः। स्त्रीणामात्य तिष्ठन्ति फलमन्तर्गतं हि ताः॥ इति । __ अथ सप्तोत्तरं मर्मशतमिति । म्रियतेऽस्योपघातेनेति मर्म । मम्मणां सप्तोत्तरं सप्ताधिकं शतमेकं भवतीत्यर्थः । तद् यथा सुश्रुते। सप्तोत्तरं मम्मशतम् । तानि मर्माणि पश्चात्मकानि। तद यथा-मांसमर्माणि। सिरामाणि। स्नायुमर्माणि । अस्थिमर्माणि । सन्धिमर्माणि चेति। न खलु मांससिरास्नायवस्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति ; यस्मान्नोपलभ्यन्ते। तत्रैकादश मांसमर्माणि । एकचखारिंशत् सिरामाणि । सप्तविंशतिः स्नायुमर्माणि । अष्टावस्थिमाणि। विंशतिः सन्धिमाणि। तदेतत् सप्तोत्तरं मर्मशतम् । तेषाम् एकादशैकस्मिन् सनि भवन्ति । एतेनेतरसथि वाहू च व्याख्यातौ । उदरोरसोदश। चतुर्दश पृष्ठे। ग्रीवायां प्रत्यद्ध सप्तत्रिंशत् । तदेतत् सप्तोत्तरं मर्म शतं पूर्यते। इति।। तत्र सक्थिमाणि-क्षिप्रतलहदयकूकूर्चशिरोगुलफेन्द्रवस्तिजान्वाण्यूज़लोहिताक्षाणि विटपञ्चेत्येकादश। एतेनेतरसक्थि व्याख्यातम् । उदरोरसोस्तु-गुदवस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ चेति द्वादश। पृष्ठमाणि तु-कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिहत्यं सफलकानि अंसी चेति चतुर्दश। वाहुमाणि तु-क्षिप्रतलहृदयकूच्चकूर्चशिरोमणिबन्धेन्द्रवस्तिकूपराणूर्वीलोहिताक्षाणि कक्षधरञ्चेत्येकादश। एतेनेतरो बाहुर्व्याख्यातः। जत्रूर्द्ध मर्माणि-चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वौ फणौ द्वावपाङ्गो द्वावावत्तौ द्वावुत्क्षेपो द्वौ शङ्खौ एका स्थपनी पञ्च सीमन्ताः चखारि शृङ्गाटकान्येकोऽधिपतिः। इति सप्तत्रिंशत् । इत्येवं सप्तोत्तरं मर्मशतम्। प्रत्यङ्गनामतः-तत्र तलहृदयेन्द्रवस्तिगुदस्तनरोहितानि मांसमर्माणि । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy