SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०३८ चरक-संहिता। [ शरीरसंख्यानाम शारीरम कूपरयोढे ऊोळे बाह्वोः सांसयोः, द्वावक्षको द्वे तालुनि, द्र श्रोणीफलके, एकं भगास्थि पुंसां मेदास्थि, एक त्रिकसंश्रितमेकं गुदास्थि, पृष्ठगतानि पञ्चत्रिंशत्, पञ्चदशास्थीनि ग्रीवायाम्। वे जत्रण्येकं हन्वस्थि, द्वे हनुमूलबन्धने, द्वे ललाटे, द्वे अक्षणोद्धे गण्डयो सिकायां त्रीणि घोणा. ख्यानि, द्वयोः पार्श्वयोश्चतुर्विंशतिश्चतुर्विंशतिः पञ्जरास्थीनि अस्थीनि । हस्तयोः प्रकोष्ठे खेकैकस्मिन् द्वे व अस्थिनी, ततश्चत्वारि द्वयोरिति। एवं चखारि जङ्घयोरस्थीनि गुलफाधस्ताजानुपर्यन्ते। द्वे जानुनोरिति पृथुगुटिकाकारे। एवमेव कूपरयोढे अस्थिनी। प्रकोष्ठबाहोः सन्धौ क्षुद्रगुडिकाकारे द्वे । द्वे ऊौरित्येकैकस्मिन् ऊरावेकैकमिति द्व। एवमेव सांसयो हो, एकैकस्मिन् बाहावेकैकमिति द्वे। इत्येवं चतसृषु पाणिपादरूपासु शाखासु खल्वेकैकस्यां शाखायां नखैः सह द्वात्रिंशदस्थीनि ; चतसृषु तान्यष्टाविंशत्युत्तरं शतं भवन्ति । शल्यतन्त्रेषु सुश्रुतादिषु नखानुक्तखादेकैकस्यां शाखायां सप्तविंशतिस्तान्यष्टोत्तरशतमुक्तानि। इति दन्तोलूखलदन्तसहितानि तान्यष्टाविंशत्युत्तरशतास्थीनि द्विनवत्यधिकशतं भवन्ति ।। द्वावक्षकावित्यादि। अत्र द्विवप्रसङ्गाद् द्वे तालुनीत्युक्तम् । तालुगतद्वयवजमक्षकादिषु खल्वक्षश्रोणिभगमेढ त्रिकगुदपृष्ठेषु द्वाचवारिंशत् । तद् यथाद्वावक्षको कण्ठादधोऽसको द्व। द्वे श्रोणीफलके इति नितम्बे द्व। स्त्रीणामेकं भगास्थि पुंसां मेढास्थि । त्रिकसंश्रितमेकं गुदे चैकम् । इति पञ्च श्रोण्याम्, अक्षको द्वाविति सप्त। पृष्ठगतानि पञ्चत्रिंशदिति द्वाचखारिंशत् । ___ अथ ग्रीवां प्रत्यूद्ध सप्तत्रिंशदिति । तद् यथा-द्वे तालुनीत्युक्तम् । पञ्चदश ग्रीवायामिति ; तेषामेकादश ग्रीवायां कण्ठनाड्यां चखारि। द्वे जत्रणि । नेमे शल्यतन्त्रे वर्णिते, हन्वस्थि चैकं न वर्णितमिति । द्वे हनुमूलबन्धने। द्वे ललाटे। वे अक्ष्णो गण्डयोः नासिकायां त्रीणीति घनरूपमेकवत्। इति वक्ष्यति शिरःकपालानि चखारि द्वौ शङ्खकाविति जत्रुगतद्वयवज्ज पश्चत्रिंशद् ग्रीवां प्रत्युद्धम्। ___ अथ मध्यदेहे-द्वयोः पार्श्वयोरित्यादि। द्वयोः पार्श्वयोरेकैकस्मिन् पार्श्वकमूले वक्षसि लग्नानि द्वादश द्वादश। इति चतुर्विंशतिः । चतुविंशतिः पञ्जराष्ठानम्। जानु जङ्घोोः सन्धिः। अक्षाविवाक्षको, जत्रुसन्धेः कीलको । तालुष के ताल्वस्थिनी। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy