SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ट अध्यायः शारीरस्थानम् । २०२८ भविष्यन्ति, तच्च नोपपद्यते। प्रत्यवं ह्यकालाहारवचनकर्मणां फलमनिष्टं विपर्यये चेष्टम्। प्रत्यक्षतश्चोपलभ्यते खलु कालाकालयुक्तिस्तासु तास्ववस्थासु तं तमर्थमभिसमीक्ष्य । तद् यथा-कालोऽयमस्य तु व्याधेराहारस्यौषधस्य प्रतिकर्मणो विसर्गस्य चाकालोबा। लोकेऽ-येतद्भवति-काले देवो वर्षत्यकाले वर्षति, काले शीतमकाले शीतं, काले तपत्यकाले तपति, काले पुष्पफलमकाले च पुष्पफलमिति। तस्मादुभयमस्ति काले मृत्युमन्तो नापरास्तत्र केचिन्नियतमरणकालाः केचिदनियतमरणकालास्वत्र नियतकालाः सव्य भविष्यन्ति। इष्टयापत्तौ साह-तच्चेत्यादि। कुतो नोपपद्यते इत्यतो हेतुमाह -- प्रत्यक्षमित्यादि। अत्रायं भावः। यो यदा भुङ्क्ते स तस्य नियतो भोजनकाल इति चेत् तर्हि कथं यः कश्चिदेकदिनं मध्याह्न भुङ्क्तेऽपरदिन प्रातरपरेदुरः सायमित्यतस्तस्याकालभोजनफलं किं न स्यात् ? एवं यो यदा यद्वक्ति स तस्य वचनस्य नियतः काल एवञ्च यो यदा यत् कर्म करोति स तस्य नियतस्तत्कर्मकाल इत्यादौ व्याख्येयम् । विपय्यये मध्याह्नादिप्रतिनियतकाले भोजनादौ च फलमिष्टम्। हि यस्मात् प्रत्यक्षं तस्मात् यो यदा म्रियते स तस्य न नियतो मृत्युकाल इति। प्रत्यक्षतः प्रमाणान्तरं दर्शयति कालाकालयोः-प्रत्यक्षतश्चेत्यादि। भावानां कालाकालयोरस्तिखनास्तिख-विषया युक्तिश्च प्रत्यक्षत उपलभ्यते किं दृष्ट्वेत्यत आह-तासु तास्त्रित्यादि। तासु तासु वक्ष्यमाणासु व्याध्यादिसद्भावासद्भावास्ववस्थासु तं तं व्याध्यादिमर्थमभिसमीक्ष्य सर्वतोभावेन सम्यग् दृष्ट्वा । उदाहरणमाह-तद यथेत्यादि । प्रतिकर्मणश्चिकित्सायाः। विसर्गस्य व्याधिमुक्तः। लोकतोऽपि प्राप्तेराङ मरणम् 'कालमृत्यु'शब्दाभिधेयमिहायुर्वेदे, तन्निरस्तं भवतीति भावः। अकालमृत्युप्रतिषेधे दृषणमाह- तस्येत्यादि। सर्वभावा इति मृत्युव्यतिरिक्ता अप्याहारवचनादयः । प्रत्यक्षमिति सुव्यक्तं प्रमाणेनेत्यर्थः, कालाकालव्यक्तिस्तासु तास्विति तास्ता अवस्थास्तं तं व्याध्याहारादिकमर्थं बुद्धिस्थीकृत्य 'कालाकाल'शब्देनोच्यन्त इत्यर्थः। अत्र तृतीयदिनयुक्तायां तृतीयकज्वरं प्रति कालोऽयमस्येति व्यपदिश्यते, विपर्यये चाकाल इति व्यपदेशः, तथा ग्लान्यादिमुक्तायां शरीरावस्थायामाहाररूपमर्थमुद्दिश्य कालोऽयमाहारस्येति ज्ञानं भवति, विपर्यये कालमित्यु. दाहरणमुन्भेयम् । विसर्गस्येति व्याधिमोक्षस्य । इह प्रकरणे 'काल' शब्देनोचितः कालोऽभि For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy