SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६ष्ठ अध्यायः शारीरस्थानम् । २०२१ सूत्रकारिणामृषीणां सन्ति सव्वेषां, तानपि निबोधोच्यमानान् । शिरः पूर्वमभिनिवर्त्तते कुक्षाविति कुमारशिरा भरद्वाजः पश्यति, सर्बेन्द्रियाणां तदधिष्ठानमिति। हृदयमिति काङ्कायनो वालीकभिषक चेतनाधिष्ठानत्वात्। नाभिरिति भद्रकाप्य आहारागम इति कृत्वा। पक्वगुदमिति छ शौनको मारुताधिष्ठानस्वात् । हस्तपादमिति वड़िशस्तत्करणत्वात् पुरुषस्य । इन्द्रियाणीति जनको वैदेहस्तान्यस्य बुद्धग्रधिष्ठानानोति कूत्वा । बुद्धिपरोक्षत्वादचिन्त्यमिति मारीचिः कश्यपः। सर्वाङ्गनिर्वृत्तिः युगपदिति धन्वन्तरिः। तदुपपन्नं सर्वाङ्गाणां तुल्यकालाभिपूर्वमभिनिवर्तते। अत्र विप्रतिवादाः मूत्रकारिणामृषीणां बहुविधास्तानुच्यमानान् मया त्वं निबोध। तद यथाह-शिरः पूर्वमित्यादि । कुमारशिरा भरद्वाजः पश्यति सर्बेन्द्रियाणांतद्धि शिरोऽधिष्ठान पिति। हृदयं पूर्वमभिनिवर्तते कुक्षाविति काकायनः। सर्लाङ्गनिळू त्तियुगपदिति धन्वन्तरिरित्यन्ता विप्रतिपत्तीः कुमारशिरःप्रभृतिवच्छौनकादयोऽपि चक्रुस्तदुक्तं सुश्रुते। “गर्भस्य हि सम्भवतः पूर्व शिरः सम्भवतीत्याह शौनकः शिरोमूलखाद देहेन्द्रियाणाम्। हृदयमिति कृतवीर्यो बुद्धर्मनसश्च स्थानखात् । नाभिरिति पाराशर्यस्ततो हि वर्द्धते देहो देहिनः। पाणिपादमिति मार्कण्डेयस्तन्मूलखाच्चेष्टाया गर्भस्य । मध्यशरीरमिति सुभूतिगो तमस्तन्निबद्धखात् सर्वगात्रसम्भवस्य । तत् तु न सम्यक् । साङ्गप्रत्यङ्गानि युगपत् सम्भवन्तीत्याह धन्वन्तरिः। गर्भस्य सूक्ष्मखानोपलभ्यन्ते वंशानु रवच्चतफलवच्च। तद् यथा चूतफले परिपक्वे केशरमांसास्थिमज्जानः पृथग दृश्यन्ते कालप्रकर्षात्, तान्येव तरुणे नोपलभ्यन्ते सूक्ष्मसात् तेषां मूक्ष्माणां केशरादीनां कालः प्रव्यक्ततां करोति। एतेनैव वंशाङ्करोऽपि व्याख्यातः। एवं गर्भस्य तारुण्ये सर्वेष्वङ्गप्रत्यङ्गेषु सत्स्वपि सोक्षम्यादनुपमतान्तरोद्धारेण स्थिरं कर्तुमाह-विप्रतिवादास्त्वनेत्यादि। पक्वाशयश्च गुदग्न्चेति पक्वाशयगुदम् । किंवा पक्वाशयसमीपस्थ गुदम् उत्तरगुदमित्यर्थः। इन्द्रियाणीति इन्द्रियाधिष्ठानानि नयनगोलकादीनि। तदुपपन्नमिति प्रतिज्ञाभिहितार्थस्य युगपदङ्गाभिनिवृत्तिरूपस्य सिद्धत्वादिति * पक्वाशयगुदमिति वा पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy