SearchBrowseAboutContactDonate
Page Preview
Page 837
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१४ चरक-संहिता। शरीरविचयशारीरम् तद् यथा-शुक्रनय क्षीरसर्पिषोरुपयोगो मधुरस्निग्धसमाख्यातानाश्चापरेषामेव द्रव्याणाम्, मूत्रक्षये पुनरिक्षुरस-वारुणीमण्डद्रवमधुरामललवणोपवलेदिनाम्, पुरीषनये कुल्माषमाषकुष्कुण्डाजमध्य-यव-शाक-धान्याम्नानाम्, वातक्षये कटुतिक्तकषा रुक्षलघुशीतानाञ्च, पित्तन्येऽ ललवाणकटुनारोगतीक्ष्णानाम्, श्लेष्मक्षये स्निग्ध-गुरु-मधुर-सान्द्रपिच्छिलानां द्रव्याणाम् । कार्माधि च यद यस्य धातोद्धिकरं तत्तदनुसेव्यम् । एवमन्येषामणि शरीरधातूनां सामान्यविपर्यायाच्यां वृद्धिहासौ यथाकालं कार्यो। इति सर्वधातूनामेकैकशोऽतिदेशतश्च वृद्धिहासकराणि व्याख्यातानि भवन्ति ॥ ७॥ विकाराणामुपयोगः स्यात् वृद्धिकर इति शेषः। अस्योदाहरणमाहतद्यथेत्यादि। शुक्रक्षये इत्यादि। समानगुणभूयिष्ठानामुदाहरणानि । कुष्कुण्डः पलालच्छत्रिका। अनस्य मध्यं मध्यदेहः। आहारानुदाहत्ते माह-- कर्मापि चेत्यादि । एतयुद्धादाहरणानुसारेण वृद्धानामपि हासो विपरीताहारविहाराभ्यामुदाहत्तव्य इति बोध्यम् । अनुक्तधातूनां वृद्धिहासावुपसंहत्तु माह-एवमन्येषामित्यादि। शारीरधातुद्धि हासव्याख्यामुपसंहरति --- इति सबंधातूनामित्यादि ॥७॥ असेव्यान् प्रत्यवमृपति। अन्यप्रकृतीनामिति विजातीयानाम् । अत्रोदाहरणमाह-तन यथेत्यादि । शुक्रे क्षीणे यदि शुक्रान्तरं न प्राप्यते, प्राप्तं वा घृणादिवशात् न प्रयोज्यं स्यात्, तदा समानगुणभूयिष्ठानां क्षीरादीनामुपयोगः कर्त्तव्य इत्यर्थः। मूत्रादावपि घृणादिना स्वजातिप्रयोगविषये समानगुणभूयिष्ठमाह-मूत्रेत्यादि। कुप्कुण्डं पलालादिच्छत्रिका। अजमध्यं छागान्तरास्थि । द्रव्याणामुपयोग इति योजना। आहारं वृद्धिकरमभिधाय बिहारमपि वृद्धिकरमाह-कर्मेत्यादि । 'कर्म'शब्देनेहास्याचिन्तादयोऽपि गृह्यन्ते। कर्म तु प्रायः प्रभावादेव वृद्धिकरं भवतीति कृत्वात्र समानगुणतापरिग्रहो न कृतः। साक्षादनुक्तानामपि धातूनामुक्तन्यायानुसारेण वृद्धिहासकारणमिति दर्शयति- एवमित्यादि। यथाकाल मिति क्रियाकालानामनतिपातेन । उक्त प्रकरणमुप. संदरति- इति सर्वेत्यादि। एकैकश इत्यनेन 'मांसमाप्याय्यते मांसेन' इत्यादिनोक्तं गृह्णाति । अतिदेश तश्चेत्यनेन "एवमन्येषामपि शरीरधातूनाम्" इत्यादिनोक्तं गृह्णाति ॥ ७ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy