SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २००८ चरक-संहिता। ( शरीरविचयशारीरम् यद्धि यस्य धातोवृद्धिकरं तत् ततो विपरीतगुणस्य धातोः प्रत्यवायकरन्तु सम्पद्यते । तदेव तस्माद् भेषजं सम्यगवचार्यमाणं युगपदनातिरिक्तानां धातूनामधिकमपकर्षति न्यूनम् विरोधिनां धातूनां योगपदान एककालं वृद्धि हासौ भवतः। यद्यत्र कश्चिद्धातुः समो वर्तते वृद्धहस्वाभ्याश्चाकृष्यते तदा सोऽपि वृद्धहस्वान्तर्गत एव स्यात्, तत्र क्षीणो यत्राकृष्यते तत्र वृद्धः स्यादिति युगपद्धि हासौ भवतः। यदि नाकृष्टः स्यात् तदा दुष्टो न स्यादिति भावः। ननु कथं विरोधिनां धातूनां युगपदवृद्धिहासौ भवत इत्यत आह-यद्धीत्यादि। तत इति । तस्माद्धातुतः प्रत्यवायकरं हासकरम् । तदेव भेषजं युगपदूनातिरिक्तानां भातूनां युगपद कर्तृत्वम्, तत्रापि वातादय एव वृद्धाः प्राधान्येन विक रकारकाः, रक्तादयोऽपि तदृष्टिदोष. सम्बन्धात् हीनस्वगुणा वृद्धस्वगुणा वा भवन्ति, ततो गुणहानिवृद्धिभ्यां वृद्धिहासौ दूष्येऽपि तिष्ठत एवेति न प्रकृतिस्थस्य विकारकारित्वमिति पश्यामः । उपयुक्तभेषजेन यथा वृद्धिहासौ भवतः सदाह-योगपदेवनेत्यादि। विरोधिनामिति परस्परविरुद्धगुणानाम्, तदेवोपपादनं दर्शयतिपद्धीत्यादि। यदि भेषजम् -- यथा श्रीरं कफशुक्रादिवृद्धिकरम्, तत् तु पित्तरक्तादेः प्रत्यवायकर भवति हासकरं भवतीत्यर्थः। विपरीतस्येति कर्त्तव्ये यत् विपरीतगुणस्येति करोति, तेन जातिवैपरीत्याद् गुणवैपरीत्यमेव ह्रासकारणं प्राधान्येन दर्शयति । तेन गोमूत्रं द्रवत्वसामान्यात् समानमपि कटूष्णरुक्षादिगुणयोगात् कफस्यापि हारकमेव ।। ___ उपपादितयोगपदेशन धातूनां वृद्रिहासगमनमुपसंहरन्नाह-तदेवेत्यादि। सम्यग् उपचर्यमाणमित्यनेन उचितमात्रादियोगं तथा साम्यावाप्तावधिकभेषजप्रयोगं दर्शयति,-मात्रादिविगुणं हि भेषजं न उचितां क्रियां करोति,- यथा वृद्धस्य कफस्य क्षीणस्यापि पित्तस्य क्षयवृद्धिभ्यां सामान्यं समुपयुज्यते कटादि, तत् साम्यापातोत्तरकालमप्युपयुज्यमानं पित्तवृद्धया कफक्षयेण च पुनर्वैषम्यमावहति। तस्मात् तददोषाणां व्यावृत्त्यर्थे सम्यगुपचर्यमाणमिति कृतम्। ननु पूर्वोक्तभेषजेन विरोधिनां वृद्धिहासौ भवतः । उपसंहारे तु धातूनां साम्यकर भेषजं भवतीत्युच्यते, तत् कथं साम्यभेद इत्याशङ्कर वृद्धिहासकरमेव धातुसाम्यकरं भवतीति दर्शयन्नाह–अधिकमपकर्षति, न्यूनमाप्यायतीति । एवंभूतञ्च धातुसाम्यकरणम् । यत्रैव विरोधिनां वृद्धिहासौ विदेवते, तत्रैव ज्ञेयम्, न सर्वत्र। तेन यत्र वृद्धिरेव परं दोषाणां न क्षयः, तत्र यथा वृद्धस्य दोषस्य क्षयाधान. मुक्तम्, न तथा श्रीणस्य वर्द्धनमिति ज्ञेयम्। * सम्यगुपचय॑माणमिति वा पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy