SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः शारीरस्थानम् । १९८६ लोकपुरुषयोरवयवविशेषाणामग्निवेश! सामान्यं विथात् इति ॥ ४॥ पुरुषयोरवयवविशेषाणां मू मूर्तानां सामान्यमग्निवेश ! भवान् विद्यादिति । तथा च । “यावन्तः पुरुषे तावन्तो लोके” इत्यनेन ख्यापितं यद्यदत्र पुरुषे तच्च तत्रेति, तत्र पुरुषो यथा स्वाङ्गुलिमानेन चतुरशीत्यङ्गुलिमितस्तथा परमव्योम परमात्मा परमपुरुषः शिवोऽपि लोकाख्यः स्वाङ्गुलिमानेन चतुरशीत्यङ्गुलिमितः । तत्राधस्तात् पुरुषस्यापादनाभिपर्यन्तः पञ्चाशदलिमितो भूलोको यथा प्रथमः पादस्तथामुष्यापि परमपुरुषस्येश्वरस्याधस्तात् पञ्चाशदङ्गुलिमितोऽव्यक्ता भूर्भुवःस्वर्महर्जनतपःसत्यविष्णुलोका इत्यष्टलोकी अनुत्तमतमो भूलोकः प्रथमः पादः। यथा चास्य पुरुषस्य नाभेरूई कण्ठपर्यन्तोऽन्तराधिश्चतुर्विशत्यङ्गुलिमितो भुवोको द्वितीयः पादस्तथामुष्य लोकाख्यस्य परमव्योम्नः परमेश्वरस्याव्यक्ताख्यादृर्द्ध चतुर्विशत्यङ्गुलिमितो देशोऽनुत्तमतमो भुवोको द्वितीयः पादः। यथैव चास्य पुरुषस्य कण्ठादूद्ध शिरोग्रीवं दशाङ्गुलं स्खलौकस्तृतीयः पादस्तथैव चामुष्य परमव्योम्नः परमपुरुषस्य लोकाख्यस्योद्धं दशाङ्गुलमनुत्तमतमः स्खलौकस्तृतीयः पाद इति। त्रिपात् पुरुषो यथा तथा त्रिपात् परमपुरुषः परमव्योमलोकाख्यः शिवः । तत्राधस्तात् पश्चाशदङ्गुले परमे व्योम्नि यानि पृथिव्यप्ते जोवाय्वाकाशाहवारमहदव्यक्तानि तानि, तथा यानि च सप्तपातालाद्यतत् पृथिव्यन्ते भूलोके नागादीनि मनुष्यादीनि, यानि चान्तरीक्षे भुवोंके चन्द्रार्कादीनि ज्योतींषि, यानि स्खलौके शक्रादीनि, यानि च महलोके यानि जनोलोके यानि तपोलोके विराड़ादीनि, यानि सत्यलोके ब्रह्मलोकवैकुण्ठशिवलोकादीनि, यानि चाव्यक्ताख्ये लोके प्रधानाख्यो ब्रह्मा क्षेत्रशाख्यो विष्णुः कालाख्यो महाविष्णुश्चेत्येतानि तानि सर्वाणि परमव्योमरूपपृथिव्या नातिरिक्तानि अतत्स्थाात्। इत्यष्टलोकी अनुत्तमतमा पृथिवी यथा प्रथमः पादः परमव्योम तानि साण्यावृणोत् । तथास्य पुरुषस्य नाभेरधस्ताद यावन्ति तानि नाधोदेहादतिरिक्तानि तात्स्थादिति भूलौकः प्रथमः पादः। यदेव तत् परमव्योमाष्टलोकात्मकादव्यक्तादूई, चतुर्विशत्यङ्गुलमनुत्तमतमो भुवलोकः कौमारलोक उच्यते। तत्र पञ्च ब्रह्मपुरुषाः कुमाराः सदाशिवदादयो विद्या नामा । आदानं ग्रहणम् । आदित्योऽप्याददातीति, आदानमप्यादित्यः । इह च मनुप्रभृतिषु प्राजा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy