SearchBrowseAboutContactDonate
Page Preview
Page 797
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९७४ चरक-संहिता। महतीगर्भावक्रान्तिशारीरम् गर्भाशयौ दूषयन्ति, तदेयं गर्भ लभते, तदा गर्भस्य तस्य मातृजानामवयवानामन्यतमोऽवयवो विकृतिमेकोऽनेकोऽथवोपपद्यते। यस्य यस्य ह्यव्यवस्य वीजभागे दोषाः प्रकोपमापद्यन्ते तं तमवयवं विकृतिराविशति। यदा ह्यस्याः शोणितगर्भाशयवीजभागः प्रदोषमापद्यते तदेयं बन्ध्यां जनयति। यदा पुनरस्याः शोणितगर्भाशयवीजभागावयवः प्रदोषमापद्यते यदा न कात्न्ये न शोणिताशयगर्भाशयो दूषयन्ति तदेयं स्त्री गर्भ लभते, किन्तु तस्य गर्भस्य मातृजावयवा विकृता भवन्ति । तत्र दोषा यादवयवारम्भकवीजभागं दूषयन्ति स स चावयवो विकृतो भवति। यदा पुनरस्याः स्त्रियाः शोणितगर्भाशययोजभागः प्रदुष्टो भवति तदा वन्ध्यां कन्यामियं जनयति । यदा पुनरस्याः स्त्रियाः शोणितगर्भाशययो/जर्भागैकदेशः प्रदुष्टो भवति तदेयं इति व्यपदेशः। एवञ्च सत्येकदेशेनापि विकृती 'विनाश'शब्ददर्शने 'कास्नेवन' इति विशेषणं युक्तं भवति। दोषप्रकोपणेनैव दोपप्रकोपणसेवायां लब्धायां पुनः 'दोपप्रकोपणोक्तान्यासेवमानायाः' इति पदं दोषाणां स्वहेतुसेवया न बलवन्तं प्रकोपं दर्शयितुम् । परहेतुसेवयापि हि स्तोकमात्रया अनुबन्धरूपो दोषकोपो भवति । यथा- अग्लेन पित्तं जन्यमानं इलेप्मोपगतं जन्यते । 'न तु कास्नपन दूषयन्ति' इति वचनेन, कास्नेवन दृष्टया गर्भजन्मैव न भवतीति दर्शयति । मातृजानामिति त्वगलोहितादीनाम् । अन्यतम इति जातावेकवचनम् । तत्रैकोऽप्यवयवोऽन्यतमः, तथा अनेकेऽवयवाः 'अन्यतम'शब्देन प्रोक्ताः। अत एवैकोऽथवानेक इत्यन्यतमविवरणमुपपन्न भवति। अन्यथा तु 'अन्यतम'पदेन एकस्यैवायवस्य गृहीतत्वात् 'अनेक' इति करणमसङ्गतं स्यात् । कुतः पुनरेकस्यानेकस्य वा विकृतिर्भवतीत्याह-यस्येत्यादि । वीज इति कृत्स्न एवारम्भके । वीजभागे वेत्यवयववीजस्यैकदेशे। एतां विकृतिमेव शृङ्गग्राहिकतया वक्तुमाह-यदेत्यादि । शोणित इत्यार्त्तवे। गर्भाशयजनको वीजभागों गर्भाशयवीजभागः, शोणितगतो गर्भाशयवीजमागो शोणितगर्भाशयवीजभागः । किंवा गर्भाशयस्य तथा वोजभागस्य आर्तवरूपस्य जनकः । गर्भाशयातवे च मातृजावयवमध्ये पतिते शोणितजन्ये एव। तेन आर्त्तवेतरवीजभागस्य दृष्टिरुपपन्ना। आर्तवञ्च यद्यपि द्वादशवर्षादूद्ध व्यज्यते, तथापि आर्तवोत्पत्तिर्गर्भकाल एव भवति। येन सतामार्त्तवदन्तश्मश्रुप्रभृतीनां काले व्यक्तिर्भवति, तेन आर्त्तवारम्भकस्यापि वोजस्य गर्भकाले प्रदोष उपपन्नः । प्रदोष इत्यत्र 'प्र'शब्देन दृष्टिप्रकर्ष प्रकृष्टबन्ध्यतारूपकार्यजनक दर्शयति। गर्भाशयस्य तथा आर्तवस्य चोपघातेन स्त्रिया बन्ध्यत्वं व्यक्तमेव। गर्भाशयवीजभागावयव इत्यत्रापि पूर्ववद * वीजे वीजभागे वा दोषः इति चक्रतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy