SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४र्थ अध्यायः ] शारीरस्थानम् । १९७१ सम्पूर्णत्वात् । तस्मात् तदा गर्भिणी मुहुर्मुहुर्मुदा युक्ता भवति मुहम्महुश्च ग्लाना, तथा च गर्भः। तस्मात् तदा गर्भस्य जन्म व्यापत्तिमद्भवत्यधिकमोजसोऽनवस्थितत्वात्। तचैवार्थमभिसमीक्ष्याष्टमं मासमगण्यमित्याचक्ष ने कुशलाः। तस्मिन्नेकरसवहनाडीभिर्भवति। कस्मात् ? गर्भस्य सम्पूर्णखात् । तस्माद्गर्भगर्भिण्योः परस्परतो मुहुर्मुहुरोजोग्रहणान मुहुर्मुहुर्मुदा युक्ता, यदा गर्भतो गर्भिणी रसवहनाड़ीभिरोजो गर्भस्य गृह्णाति तदा हर्षयुक्ता भवति। गर्भश्च ग्लानो भवति। मुहुम्मुहुग्लानो यदा गर्भो मातृतो रसवहनाड़ीभिरोजो गृह्णाति तदा गर्भिणी क्षीणहर्षा भवति। तथा च गर्भः .. तद्वच्च गौं मुदा युक्तो मुहुर्मुहुर्भवति मुहुम्मुहुरानो भवति। तस्माद गर्भगर्भिण्योः परस्परतो मुहुम्मुहुरोजोग्रहणेन मुहुम्मुहुहर्षाहर्षात् सवलदुर्बलखाच तदाष्टमे मासे गर्भस्य जन्म अधिक व्यापत्तिमभवति प्रायोऽल्पायुष्ट्वादिदोषं भवति। कस्मात् ? ओजसोऽनवस्थितखात् । प्राणायतनं ह्योज उक्तम्। तश्च व्यापदोषमर्थमभिसमीक्ष्य गर्भस्याष्टमपासमगण्यमित्याचक्षते कुशलाः। तस्मिन्नष्टमे मासे खल्वेकओजोऽनवस्थाने हेतुमाह -- गर्भस्यासम्पूर्णत्वादिति, यस्माद गर्भोऽसम्पूर्णः, तस्मादनिष्पन्नाश्रयं गी जोऽनवस्थितं भवति। मातुरोजो गर्भ गच्छतीति यदुच्यते, तद्गीज एव मातृसम्बद्धं सत् मात्रोज इति व्यपदिश्यते। गर्भस्यासम्पूर्णत्वादिति हेतुः। सम्पूर्णत्वे मातृदेहतस्तस्यौजसो गमने असङ्गतिः स्यात्, तथा यथा गभौ जसो मातय॑वस्थानसमये जन्म गर्भमरणकरं भवति, तथा मातुरोजसो गर्भावस्थाने सति यद् गर्भजन्म, तत्र मातुरपि मरणं स्यात् । न चतदिष्टम् । येनोभयथापि गर्भस्यैवात्र मरणमुच्यते, न मातुः, तदा गर्भस्य जन्म व्यापत्तिमद् भवति" इति वचनेन। जतूकणेऽपि, अष्टमेऽपि जन्म गर्भविनाशायैव न मातुर्दर्शितम् । यदुक्तम्-- "स्त्रीगर्भावन्योन्यस्य ओजसी हरतोऽष्टमे। तस्मात् तदा सूतिका गर्भविनाशायैव” इति । अन्ये तु वर्णयन्ति यत्- "सत्यपि मातुरोजसो गर्भगमने जन्मादृष्टवशादेव गर्भस्यैव मरणाय भवति, न मातुः।" सुश्रुतव्याख्यातारस्तु--"अष्टममासे नैर्ऋतभाग वाच गर्भस्य सत्यप्यीजोऽनवस्थाने तुल्ये गर्भस्यैव नाशो न मातुः” इति वर्णयन्ति। गर्भिणी मुहम्मुहुर्मुदा युक्ता भवतीति गीजोयोगान् हर्षयुक्ता भवति, ओजोविगमात् तु मुहम्मुहुराना भवतीति योज्यम् । तथा गर्भ इति गर्भिणीवद्गर्भोऽपि मुहुर्मुहूर्मुदा युक्तो भवति, मुहम्म हुर्लानो भवति। तस्मादिति पूर्वोक्तं गर्भव्यापत्तिहेतु साक्षात् ब्रूते । ओजसोऽनवस्थितत्वादिति । एतच्च व्याकृतमेव । अष्टममासस्य विशेषान्तरमाह-तन्चैवेत्यादि। तम्चैवार्थमिति गर्भव्यापत्तियुक्तमर्थम्। अगण्यमिति * असम्पूर्णत्वात् इति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy