SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९३४ चरक-संहिता। खुड्डीकागर्भावक्रान्तिशारीरम् सेविनां स्त्रीपुरुषाणां त्रयो दोषाः प्रकुपिताः शरीरमुपसर्पन्तो न शुक्रशोणितगर्भाशयोपघातायोपपद्यन्ते तावत् समर्था गर्भजननाय भवन्ति। सात्म्यसेविनां पुनः स्त्रीपुरुषाणामनुपहतशुक्रशोणितगर्भाशयानामृतुकाले सन्निपतितानां जीवस्यानवक्रमणाद् गर्भा न प्रादुर्भवन्ति । न हि कंवलं सात्म्यज एवायं गर्भः समुदायोऽत्र कारणमुच्यते ॥१५॥ ___ यानि तु खल्वस्य गर्भस्य सात्म्यजानि यानि चास्य सात्म्यतः सम्भवतः सम्भवन्ति तात्यनुव्याख्यास्यामः। तद् तस्मात् सात्माजो गर्भो न खसात्माजः। अत्रासात्मासेविनस्वखिलेनानपत्याः स्युरिति यदाशङ्कितं तन्न। कुत इत्यत आह-यावत् खल्वित्यादि। तस्मादसात्मासेविनां शरीरोपसर्प द्भिरपि प्रकुपितैरपि त्रिभिदोषैः शुक्रशोणितगर्भाशयोपघाताभाववतां सापत्यखम्। शुक्रशोणितगर्भाशयोपघातवतान्तु अनपत्यवमिति नासात्मासेविनां निखिलेनानपत्यवम्। एवं सात्मासेविनाम् ऐकान्तेन व्यक्तं प्रजा स्यादिति यदुक्तं तदपि न युक्तम् । कुत इत्यत आहसारमासेविनां पुनरित्या दि। सन्निपतितानामिति व्यवायमापन्नानाम् । यदि सात्मासेविनामनुपहतशुक्रशोणितगर्भाशयानामृतुकाले व्यवायवतामपि स्त्रीपुरुषाणां जीवस्यावक्रममन्तरेण न गर्भा भवन्ति, तहिं कथं सात्माजश्वायम् उच्यते इत्यत आह-न हीत्यादि। केवलमिति एकस्मात् सात्म्यादेव गों जायते इति नोच्यते, किमुच्यते इत्यत आह-समुदाय इत्यादि। समुदायो मातापित्रात्मसात्मारससत्त्वानामेषां समुदाय इत्यर्थः । जीवस्यानवक्रमे सात्माम् एव सेवमानानां न गर्भा भवन्ति। जीवस्योपक्रमे तु भवन्तावेति सात्म्यसेविनाम् ऐकान्त्येन व्यक्तं प्रजा न स्यादिति बोध्यम्। नन्वैतावतापि सात्म्यस्य कस्मात् कारणमिष्यते जीवस्यावक्रमस्येष्यतामिति चेन्न। गर्माणां सात्म्यस्य कारणखमन्तरेण सात्म्यजान्यपि यानि तानि न प्रादुर्भवन्ति ॥१५॥ गङ्गाधरः-ननु कानि च तानि सात्म्यजानीत्यत आह-यानीत्यादि। गर्भस्य जातोत्तरकालं यानि तु सात्म्यजानि तानि सात्म्यतः सम्भवतो दर्शयन् सात्म्यसेवाया गर्भ प्रति कारणत्वं द्रढ़यति, सात्म्यसेविनामपि प्रभावबलोत्पत्ति दर्शयन् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy