SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २य अध्यायः] शारीरस्थानम् । १६१६ तत्र श्लोकः। इहानिवेशस्य महार्थयुक्तं षट्त्रिंशकं प्रश्नगणं महर्षिः। अतुल्यगोत्रे भगवान् यथावन्निर्णीतवान् ज्ञानविवर्द्धनार्थम् ॥४७ इत्यग्निवेशकृते तन्ने चरकप्रतिसंस्कृते शारीरस्थाने ___ अतुल्यगोत्रीयशारीरं नाम द्वितीयोऽध्यायः॥ २ ॥ कर्त्तव्यं यद्यत् तत्तदुपसंहारेणाह-मतिरित्यादि। सुखानुबन्धीति पदं लिङ्गविपरिणामेन सर्वत्र योज्यम् । तेन सुखानुवन्धिनी चिन्त्यसङ्कल्प्यादिविषया मतिविधेया, वश्च सुखानुबन्धि विधेयम्, कर्म च सुखानुबन्धि विधेयम्, सत्त्वं मनश्च सुखानुवन्धि विधेयम्, उहापोहादिबुद्धिश्च विशदा निर्मला सुखानुवन्धिनी च विधेयेति बोध्यम् ॥ ४६॥ गङ्गाधरः-- अथाध्यायार्थमुपसंगृह्णाति-तत्र श्लोक इत्यादि। महाथ महाप्रयोजन प्रतिनित्तिहेतुखात् । षट्त्रिंशकं प्रश्नगणम् । * अतुल्यगोत्रस्येत्यादिनकः प्रश्नः। सम्पूर्णदेह इत्यादिना पट प्रश्नाः। कन्यां मुतं वेत्यादिना नव प्रश्नाः। कस्माद् द्विरेता इत्यादिनाष्टौ प्रश्नाः । गर्भस्य सद्योऽनुगतस्येत्यादिना त्रयः प्रश्नाः। कस्मात् प्रनामित्यादिना त्रयः प्रश्नाः। रोगाः कुत इत्यादिना चखार : प्रश्नाः। इति पत्रिंशकं प्रश्नगणं महर्षिः पुनर्वसु मुनिः अतुल्यगोत्रे अतुल्यगोत्रीयेऽध्याये ॥४७॥ ___ अध्यायं समापयति --अग्नीत्यादि। इति वैद्यश्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ शारीरस्थान जल्पे चतुर्थस्कन्धे अतुल्यगोत्रीयशारीरजल्पाख्या द्वितीयशाखा ॥२॥ फलानि शुभानि गृह्यन्ते। सत्त्वं विधेयं स्वायत्तं मनः। विशदा बुद्धिरिति न कश्मला बुद्धिः । बुद्धिश्चे ह ऊहापोहवती विवक्षिता। मतिस्तु स्मृतिचिन्तादिः। ज्ञानं तत्त्वज्ञानम् । शेषं सुगममिति ॥ ४५----४७ ॥ इति चरकचतुराननश्रीमच्च कपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायाम् शारीरस्थाने अतुल्यगोत्रीयशारीरं नाम द्वितीयोऽध्यायः ॥ २॥ * अत्र टीकाद्वये पत्रिंशत्प्रश्नगणस्य असमञ्जसतयेथं विचारितम्। तद् यथाअतुल्यगोत्रस्येत्यत्रैकः प्रश्नः, सम्पूर्णदेह इत्यत्र पञ्च, कन्यां सुतं वेत्यत्र नव, कस्माद् द्विरेताः इत्यत्राष्टौ, गर्भस्य सद्योऽनुगतस्य इत्यत्र पञ्च, कस्मात् प्रजा स्त्रीत्यत्र त्रयः, रोगाः कुतः इत्यत्र पञ्च। इति षटत्रिंशत्प्रश्नगणः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy