SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः शारीरस्थानम् । १६०६ वीजात्मकर्माशयकालदोषेर्मातुस्तदाहारविहारदोषैः। कुर्वन्ति दोषा विविधानि दुष्टाः संस्थानवणेन्द्रियवैकृतानि ॥२८॥ वर्षासु काष्ठाश्मघनाम्बुवेगास्तरोः सरित्स्रोतसि संस्थितस्य । यथैव कुर्युर्विकृति तथैव गर्भस्य कुक्षौ नियतस्य दोषाः ॥२६॥ भूतैश्चतुर्भिः सहितः स सूक्ष्मः मनोजवो देहमुपैति देहात् । कात्मकत्वान्न तु तस्य दृश्यं दिव्यं विना दर्शनमस्ति रूपम् ॥३० कस्मात् स्त्री मूते इत्यर्थः। इत्येकः प्रश्नः। आत्मा कथं देहादेकस्मादन्यं देहमुपैतीति द्वितीयः प्रश्नः। कैश्च भावैरात्मा सदा नित्यमनुवध्यते इति तृतीयः प्रश्नः ।। २७॥ गङ्गाधरः- क्रमेणैषामुत्तराण्याह-वीजात्मेत्यादि। वीजं शुक्रं शोणितञ्च । आत्मा षड़ धातुः मुक्ष्मदेही । कर्म पूच्चकृतं शुभाशुभदिष्टम् । आशयो गर्भाशयः योनिरित्यर्थः। कालः सत्यत्रेताद्वापरकलिसम्बन्धिसंवत्सरीयषडसहोरात्रक्षणमुहूर्तादिः शुभाशुभो नित्यगस्तथा चावस्थिकश्च वाल्ययौवनवाक्यादिः ; तेषां दोषा वाच्यास्तैः। मातुश्च दोषैस्तदाहारविहारदोषैराहितगर्भाया आहारविहारदोषैः। दोषा वातपित्तकफाः शारीरारजस्तमश्च मानसदोषो। एते दोषा दुष्टाः सन्तः विविधानि संस्थानस्यावयवसंस्थाया वर्णस्य इन्द्रियाणाश्च वैकृतानि विकृतखानि कुर्वन्ति। अत्र दृष्टान्तमाह- वर्षाखित्यादि। तरोटेक्षस्य । कुक्षौ नियतस्य गर्भस्य। इति प्रथमप्रश्नोत्तरम् ॥ २८॥२९॥ गङ्गाधरः-भूतैरित्यादिना द्वितीयप्रश्नोत्तरम्। स केवलश्चेतनाधातुरात्मा महदहङ्कारमूक्ष्मा काशादित्रयोविंशत्या सूक्ष्मस्तत्त्वैः मूक्ष्मदेही क्रियावद्भिः द्वित्रिचतुःपञ्चात्मकैर्वाय्वादिभिश्चतुर्भिभूतैः सहितो भूतात्मा म्रियमाणस्तत्'विकृताम्' इति पदेन कु रूपाम्, 'हीनाधिकाङ्गीम्' इति पदेन च हीनाङ्गादिरूपामेव कुरूपातिरिक्तां वदन्ति, तेषां मते प्रश्नभेदः स्यात् ; तथा अध्यायान्ते च वक्ष्यमाणसंख्या अतिरिक्ता भवति । आत्मीयकर्म भात्मकर्म । आशयो गर्भाशयः। दोषो वैगुण्यम् । अश्मघनानि पाषाणखण्डाः । वेगाः काष्ठादीनां त्रयाणाम् ॥ २७-२९॥ चक्रपाणिः-द्वितीयप्रश्नस्योत्तरम्-मूतैरित्यादि। सुसूक्ष्मैरित्यनेन चातीन्द्रियत्वं दर्शयति । आकाशस्येहाक्रियत्वेन मनोगतिरेव भूतसहिता 'गति'शब्देनोच्यत इति दर्शितं भवति । देहात् * सुसूक्ष्मैरिति चक्रतः पाठः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy