SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shrika www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५० चरक-संहिता। ज्वरनिदानम् गन्धोपघाणात विषोपहतस्य चोदकस्योपयोगाद गरेभ्यो गिरीणाञ्चोपश्लेषात् स्नेहस्वेदवमनविरेचनास्थापनानुवासनशिरोविरेचनानाम् अयथावत् प्रयोगात् मिथ्यासंसज्जनाद्वा स्त्रीणाञ्च विषमप्रजननात् प्रजातानाञ्च मिथोपयोगात् यथोक्तानाच हेतूनां मिश्रीभावात् यथानिदानं द्वन्द्वानामन्यतमः सर्वे वा त्रयो दोषा युगपत् प्रकोपमापद्यन्ते, कोपनाः। असात्म्यगन्धोपघ्राणं त्रिदोषकोपनम् । विषोपहतोदकोपयोगस्त्रिदोषकोपनः । गरश्च त्रिदोपकोपनः । गिरीणामुपश्लेषश्च त्रिदोपकोपनः । स्नेहादीनामयथावत्प्रयोगस्वयोगातियोगरूपस्त्रिदोषकोपनः। मिथ्यासंस जनश्च स्नेहादीनामविधिना पथ्ययोगस्त्रिदोषकोपनः। स्त्रीणाञ्च विषम प्रजननमल्पकाले कालात्यये वा विपुलदेहापत्यस्य वा प्रसवस्त्रिदोषकोपनः । प्रजातानाश्च प्रमूतानां स्त्रीणाञ्च मिथ्योपचारो विधिविपव्ययेणाहारो विहारश्च त्रिदोषकोपनः। प्रजातेति कर्तरि क्तः। यथोक्तानाञ्च हेतूनां वातादिज्वरोक्तानां रुक्षादीनामुष्णाम्लादीनां स्निग्धादीनाञ्च निदानानां मिश्रीभावात् द्वन्द्वानां त्रयाणां वा मिलितत्वेन सेवनात् । यथानिदानं यस्य वातादेवन्द्वान्यतमस्य त्रिकस्य वा यद्यदंशतो वढेकनिदानं सेवितं भवति तत्तदंशतो द्वन्द्वानामन्यतमो वातपित्तरूपो वातश्लेष्मरूपो वा पित्तश्लेष्मरूपो वा द्वन्द्रो दोषः। सा वा समस्तास्त्रयो दोषा वा युगपत् एककालमेव प्रकोपम् आपद्यन्ते। सर्वे इतिपदेन प्रत्येकं त्रयाणां दोपाणां प्रकोपव्यरछेदः । एवं द्वन्द्वपदेन बोध्यम्। युगपदितिपदेन पूर्वोत्तरकाले मिलितत्वेन कोप व्यवछेद इति । एतेन तन्निरस्तं यदुच्यते पित्तं येन वर्द्धते तेन कफोपशमनं येन तु श्लेष्मा वद्धते तेन पित्तस्य मारुतस्यापि प्रशमनं भवतीति । महत्” इति। अन्नपरिवर्त्तादिति सहसैवाक्रमेण कृताभ्यस्तानपरिवर्तात् ; असात्म्यगन्धोपघ्राणात् असात्म्यगन्धद्रव्यस्य नासिकयान्तःप्रवेशाद् यथा दोषकरो भवति, न तथा असात्म्यरूपादयः ; ते हि नावश्रां शरीरं विशन्ति ; तेन नेहासात्म्यरूपादय उक्ताः। यथानिदानमिति यदा द्वयोनिदानं सेव्यते, तदा द्वन्द्वः, यदा त्रयाणाम्, तदा यो दोपाः ; द्वन्द्वऽपि यदा वातपित्तयोनिदानं सेव्यते, तदा वातपित्तरूपं द्वन्द्वम् ; एवमन्यदपि कुप्यतीत्यर्थः। सर्वे त्रयो दोषा इत्यनेन लब्धेऽपि 'युगपट' इति वचनं क्रमप्रकोपप्रतिषेधार्थम्, युगपदेव प्रकोपमापद्यन्ते For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy