SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः । शारीरस्थानम् । १८६६ तदग्निसूर्याश्रमरोषशोकैः * उष्णान्नपानैरथवा प्रवृत्तम् । दृष्टास्टोकं न च गर्भमज्ञाः + केचिन्नरा भूतहृतं वदन्ति ॥८ ओजोडशनानां रजनीचराणामाहारहेतोर्न शरीरमिष्टम् । गर्भ हरेयुर्यदि ते न मातुर्लब्धावकाशा न हरेयुरोजः ॥६॥ कन्यां सुतं वा सहितौ पृथग वा सुतौ सुने वा तनयान् बहून् वा । कस्मात् प्रसूने सुचिरेण गर्भमेकोऽभिवृद्धिञ्च यमेऽभ्युपैति ॥१० यदानवपसृा तद्विवर्द्धयानं गर्भस्य रूपं करोति। तदस्रावि तस्या नाऱ्या आर्तवममुक पुनर्यद्यग्निसन्तापादिभिर्हेनुभिरथवोष्णानपानहेतुभिः प्रवृत्तं भवति तदा केचिदशा एकं केवलमसक दृष्ट्वा गर्भश्च न दृष्ट्वा भूतहतं गर्भ वदन्ति । ननु तहि ते कस्मादेवं वदन्तोऽज्ञा भवन्ति, यतो गर्भस्य रूपं पश्यन्ति ततस्वसकस्रावमात्रं पश्यन्ति गर्भाकारं न दृष्ट्वा भूतहतवचनेन किमज्ञा भवन्तीत्यत आह-ओजोऽशनानामित्यादि। रजनीचराणां राक्षसादीनाम् ओजोऽशनानामाहारहेतोरोज एवेष्ट न तु शरीरमिष्टम् । ते खल्वोजोऽशना रजनीचरा यदि गर्भस्य मातुर्लब्धावकाशा अवकाशं लब्ध्वा अनिष्ट गर्भ हरेयुस्तदा नौजश्च हरेयुरिति ॥५-९॥ गङ्गाधरः-अथाग्निवेशः पृच्छति-कन्यामित्यादि। भगवन् गुरो कस्मात् हेतोः स्त्री कन्यां दुहितरं प्रमूते, कस्मात् सुतं पुत्रं वा प्रसूते, सहितौ दुहितापुत्री कस्मात् प्रमृते, पृथग् वा कस्मात् प्रमूते, कस्मात् सुतौ द्वौ पुत्री प्रसूते, द्वे सुते वा प्रभावात् गर्भलिङ्गानि कानिचिद्दर्शयतीत्यर्थः। असृगेवमिति अमृगेव परम्। न च गर्भसंज्ञमिति न गर्भ ग्रन्थाद्याकारकम् ॥ ६८ ॥ ____ चक्रपाणिः-मूतेन गर्भाहरणे हेतुमाह--ओजोऽशनानामित्यादि। ओजोऽष्टबिन्दुकमश्नन्तीत्योजोऽशनाः। यदि त्वोजोऽशना अपि गर्भ हरेयुस्तदा मातुर्नितरामाहारभूतमोजो लब्धावकाशत्वेन हरेयुः । लब्धावकाशा इति प्राप्तगर्भिण्यभिगमनकारणाः ॥९॥ • चक्रपाणिः- कन्यामित्यादि प्रश्नाष्टकम् । कन्यां कथं प्रसूत इति प्रथमः, सुतं पृथग वेति द्वितीयः, सहितौ कन्यासुती वेति तृतीयः, सुतौ सहितौ इति चतुर्थः । सुते सहिते इति पञ्चमः, * शाकरित्यत्र रोगैस्तथा असृगेकमित्यत्र असृगेवमिति वा पाठः। । गर्भमज्ञा इत्यत्र गर्भसंज्ञमिति पाठान्तरम् । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy