SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः । शारीरस्थानम् । १८८ स्थिर एकात्मा यो गर्भाधानादिना संस्क्रियते। पुत्रकम्मवदुपकार्योपकारकभावोऽस्त्यात्मादृष्टयोरिति चेन्न। कस्मात् ? अस्ति हीत्यादि। हि यस्मात् तत्र पुत्रकर्मणि स्थिर एक एवात्मा य आत्मा गर्भाधानादिना संस्क्रियते। न तु गर्भाधानादिना कम्मेणा संस्कृतः पुत्र एवात्मा तत्पुत्ररूपत्वेन स्थिरखं व्याहन्यते। तथात्मनोऽदृष्टेन न स्थिरत्वं व्याहन्यते। ननु गर्भाधानादिसंस्कारैर्गुणान्तरमुत्पद्यते तेनोपनयनादिना वेदाध्ययनादिक्षमत्वेन विशिष्टरूपो द्विजो भवतीति नास्ति तत्रैकात्मस्थिरतेति चेत् तत्राह-स्थिरका-सिद्धेः क्षणिकखम् ।। बद्धस्यादृष्टवशतो जातत्वे क्षणिकलं स्यात् । कस्मात् ? संस्कारसंस्काययोरुपकारकोपकार्यवेऽपि यवनाद्यन्नादिसेवने पूर्वसंस्कारलोपे पुनः संस्कायेखविधानात् संस्कारस्य स्थिरका-- सिद्धेः तद्वददृष्टस्यापि नाशे बन्धस्य नाशात् प्रतिक्षणं बन्धतन्नाशयोरापत्तिः स्यादिति। अत्रोत्तरमाह वादी। न प्रत्यभिज्ञाबोधात् ।। पुत्रकर्मणोरिवात्मादृष्टयोरुपकार्योपकारकभावे स्थिरका सिद्धेबेन्धस्य क्षणिकत्वं न। कस्मात् ? प्रत्यभिज्ञावाधात्। यथा योऽसौ पुत्र उपनीतः स एवायं यवनाद्यन्नादिदोषात् पुनरुपनीयते इति पुनरुपनयनकर्मणि प्रत्यभिशया कार्यस्योपनयनस्यास्थिरत्वस्य वाधात्। तथात्मा योऽसौ कृतेन केनचित् कर्मफलेन बद्धः, स एवायं तत्कर्म फलनाशेऽप्यपरकम्मैफलेन बध्यते। इति प्रत्यभिज्ञया कार्यस्य फलानुवन्धिकर्मणोऽस्थिरत्वस्य बाधात्। ननु यदवस्त्रं शुक्लमहं पर्यधां तदेवेदं कृष्णमलिनमिति रजकेन कृतस्य वस्त्रसंस्कारस्य शुक्लगुणाधानस्य नाशदर्शनात् कार्याणां स्थैर्य्यस्यासिद्धर्बन्धस्यादृष्टकृतस्य क्षणिकत्वं तददृष्टस्य नाशात् इत्याशङ्कायामाह । श्रुतिन्यायविरोधाच ।। श्रुतिर्हि । असद् वा इदमग्र आसीत् ततो वै सदजायतेति। तस्य च्छान्दोग्ये ब्राह्मणः। असदेवेदमग्र आसीत् तत् सदासीत्। तत् सदभवदिति। पुनश्च यदुक्तं सदेव सौम्येदमग्र आसीदेकमेवाद्वितीयम्। तद्धेयक आहुः। असदेवेदमग्र आसीदेकमेवाद्वितीयं तस्मादसतः सजायतेति। तत्र न्यायः। कुतस्तु खलु सौम्यैवं स्यादिति होवाच कथमसतः सज्जायतेति सत्त्वेव सौम्येदमग्र आसीदेकमेवाद्वितीयमिति, असत्पदन सदेव वस्तु तस्मात् सतो जन्म न खसतः। खल्ववस्तुतो वस्तुनः सतो जन्मेति श्रुतिन्याययोर्विरोधाचात्मनोऽदृष्टतो वन्धस्य न क्षणिकवं सत्काय्यखेनादृष्टस्य नित्यखात्। नन्वसद्वा इदमन आसीत् नतो वै सदजायतेत्यस्य मन्त्रस्य सदेव सौम्यंदमग्र आसीदेकमेवाद्वितीयम् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy