SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः शारीरस्थानम्। १८८३ गतिब्रह्मविदां ब्रह्म तच्चाक्षरमलक्षणम् । ज्ञानं ® ब्रह्मविदाश्चात्र नाज्ञस्तज ज्ञातुमर्हति ॥ ५१॥ प्रत्यक्षेणानुमानेनाप्तोपदेशेन वा सर्वथा नोपलभ्यते। तदा ह्यप्रमेयं भवति प्रमाणैरज्ञ यखात् । कस्मान्नोपलभ्यते ? सर्व तत् कार्य लिङ्ग लिङ्गेनानुमेयं स्या दित्यत आह-निःसन इत्यादि। सोऽयं मुक्तो ब्रह्मभूनः सर्वभावेभ्यो निःसृतो यस्मात् तस्मात् तस्य नोपलब्धिरस्ति । कस्मात् ? यस्मात् तस्य चिह्न लिङ्गमनुमितिसाधनं न विद्यते। ततः स कथमुपलभ्येत ? सबैभावानिःसरणान्न तस्य किमपि काय करणश्च विद्यते ततो लिमञ्च नास्तीति । तहि नास्तु लिङ्गग्राह्यः ज्ञानान्तरवि योऽपि किं न स्यादित्यत आहगतिरित्यादि। ब्रह्मविदां गतिब्रह्मैव तच्चालक्षणमक्षरञ्च। अत्र ब्रह्मविदां योगिनां यत्सांख्यशानयोगज्ञानं तज्ज्ञान यवञ्चास्ति मानसग्राह्यवन्तु नास्तीत्यस्मादशस्तब्रह्म न ज्ञातुमर्हति । अत्रेयमाशङ्का । यदावमात्मा कथं स खलु पुनः बध्यते केन वा वन्धनेनेति ? तत्रोच्यते। यदुक्तं लैङ्गे नवमाध्याये-सनत्कुमार उवाच। कथं पशुपतिर्देवः पशवः के प्रकीर्तिताः। कैः पाशैस्ते निबद्धाश्च विमुच्यन्ते च ते कथम्। शैलादिरुवाच। ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य धीमतः। पशवः परिकीत्यन्ते संसारवशवर्तिनः। तेषां पतिखाद् भगवान् रुद्रः पशुपतिः स्मृतः। अनादिनिधनो धाता भगवान् प्रभुरव्ययः। मायापाशेन बनाति पशूस्तान् परमेश्वरः। स एव मोचकस्तेषां ज्ञानयोगेन सेवितः। अविद्यापाशबद्धानां नान्यो मोचक इष्यते। तप्यते परमात्मानं शङ्करं परमेश्वरम् । चतुर्विंशतितत्त्वानि पाशा वै परमेष्ठिनः। पाशेभ्यो मोचयत्येष शिवो जीवानुपासितः। निवनाति पशूनेकश्चतुविंशतिपाशकैः । स एव भगवान् रुद्रो मोचयत्यपि सेवितः। दशेन्द्रियमयैः पाशैरन्तःकरणसम्भवैः। भूततन्मात्रपाशैश्च पशून् बध्नाति च प्रभुः। इन्द्रियाथेमयैः पाशैबंधात्येव शिवः प्रभुः। पाशमुक्ता भवन्त्येते परमेश्वरसेवनात्। भज इत्येव धातु सेवायां परिकीर्तितः। तस्मात् सेवा बुधैः प्रोक्ता भक्तिशब्देन भूयसी। ब्रह्मादीन स्तम्भपय॑न्तान् पशून बद्धा महेश्वरः। त्रिभिगुणमयैः पाशैः कार्य कारयति स्वकम्। दृढ़ेन भक्तियोगेन पशुभिः समुपासितः। मोचयत्येव तान् सद्यः शङ्करः परमेश्वरः। भजनं भक्तिरित्युक्ता वाङ्मनःकायकर्मभिः । * ज्ञेयमिति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy