________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८५६
चरक-संहिता। कतिधापुरुषीयं शारीरम् कर्मणामसमारम्भः कृतानाञ्च परिक्षयः । ने कम्यमनहङ्कारः संयोगे भयदर्शनम् ॥ मनोबुद्धिसमाधानमर्थतत्त्वपरीक्षणम् । तत्त्वं स्मृतेरुषस्थानात् सर्वमेतत् प्रवर्त्तते॥
प्रवत्तनम् । परा धृतिर्धय॑मिति । कम्मणां नित्यनैमित्तिककाम्यानां स्वभावात् अनारम्भः, कृतानाञ्च कम्मेणां फलक्षयात् क्षयः। नैष्क्रम्यं गृहाश्रमानिष्क्रमणम् । अनहङ्कारो गवत्यागः। लोकानां संयोग सङ्गम भयमिव दृश्यते इति । मनोबुद्धिसमाधानम् मनःसमाधानं बद्धश्च समाधानं समाधिः। उक्तं पातञ्जले। देशवन्धश्चित्तस्य धारणा। तत्र प्रत्ययैकतानता ध्यानम् । तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः। त्रयमेकत्र संयमः। इति व्याख्यातानि वेदव्यासेनैतानि ।
यत्र नाभिचक्रे हृदयपुण्डरीके मूर्द्धज्योतिषि नासाग्रे जिह्वाग्रे इत्येवमादिषु देशेषु वाहो वा विपये चित्तस्य वृत्तिमात्रेण वन्ध इव वन्धो धारणा। तत्र प्रत्ययकतानता ध्यानम्। तस्मिंश्च देशे ध्येयालम्बनस्य प्रत्ययस्यकतानता सादृश्यप्रवाहः प्रत्ययान्तरेणापरामृष्टो ध्यानम् । तदेवार्थमात्रनिभासं स्वरूपशून्यमिव समाधिः । ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात् तदा समाधिः इत्युच्यते। त्रयमेकत्र संयमः । ( तदेतद्धारणाध्यानसमाधि ) एकविषयाणि त्रीणि साधनानि संयम इत्युच्यते। सदस्य त्रयस्य तान्त्रिकी परिभाषा संयम इति । अर्थतत्त्वपरीक्षणम् । अर्थानां वस्तूनां तत्त्वेन याथार्थ्येन परीक्षासामर्थ्यम् । तत्त्वं सर्वत्र याथार्थ्यमित्येतत् सतामुपसनाद्येतदन्तं सर्व स्मृतरुपस्थानादपस्थित्याः प्रवर्तते न खेकैकमात्रं
कर्मणाम् असमारम्भ इति अनागतधर्माधर्मसाधनानामकरणम् । कृतानाञ्च परिक्षय इति जन्मान्तरैः कृतानां कम्मणां फलोपभोगात् परिक्षयः । नैष्क्रम्यं संसारनिष्क्रमणेच्छा । अनहङ्कार इति ममेदमहमस्मीत्यादिबुद्धिवर्जनम्। संयोग इति आत्मशरीरादिसंयोगे। मनोबुद्धिसमाधानमिति मनोबुद्ध घोरात्मनि समाधानम्। सर्वमेतदिति "कर्मणामसमारम्भः" इत्यादुधक्तम्। तत्त्वस्मृतिः आत्मादीनां यथामूतानुस्मरणम्, सा च आत्मा शरीराधपकार्य्यः शरीरादयश्च तदधीनमावा
For Private and Personal Use Only