________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१म अध्यायः शारीरस्थानम्।
१८४५ नेन्द्रियाणि न चैवार्थाः सुखदुःखस्य हेतवः। हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्विधः॥ सन्तीन्द्रियाणि सन्त्यर्था योगो न च न चारित रुक । न सुखं, कारणं तस्माद योग एव चतुर्विधः ॥ ३९ ॥ नात्मेन्द्रियमनोबुद्धि-गोचरं कार्म वा विना।
सुखं दुःखं यथा यच्च बोद्धव्यं तत् तथोच्यते ॥ ४०॥ न तु सुखानाम् । कः पुनः सुखहेतुरित्यत आह-सुखहेतु रिति। एकः सुदुर्लभः कालबुद्धीन्द्रियार्थानां समयोगः सुखहेतुर्मतः आरोग्यहेतुरिति यावत् ॥३८॥
गङ्गाधरः-ननु कालादय एव हेतवः कथं तेषां योगा हेतब उक्ता इत्यत आह-नेन्द्रियाणीत्यादि। सुखदुःखस्य हेतवो नेन्द्रियाणि न चाों न च कालो न बुद्धिः । तर्हि के हेतवः ? तत्राह-सुखदुःखस्य हेतुस्तु चतुर्विधो योगो दृष्टः । कस्मात् ? सन्तीत्यादि। यस्मादिन्द्रियाणि सन्ति सन्ति चार्थास्तेषां योगो न यदि भवति रुक् च नास्ति सुखञ्च नास्ति। एवं कालोऽस्ति पुरुषोऽस्ति योगो नास्ति न चास्ति रुकन चास्ति सुखम् । तथा बुद्धिः अस्ति बोद्धव्यञ्चास्ति योगो नास्ति रुक् च सुखञ्च नास्तीति बोध्यम् । तस्मात् चतुविध योग एव सुखदुःखस्य कारणमिति ॥ ३९ ॥
गङ्गाधरः-ननु सुखदुःखस्यानुभवे कारणमात्मेन्द्रियमनोबुद्धयो न कथं सुखदुःखस्य हेनव इत्यत आह-नात्मेत्यादि। न खल्वात्मादिगोचरं सुखं अन्यतरेणाप्ययोगादिना पुरुषः सम्बध्यते। तेन च नित्यातुरा एव पुरुषा भवन्ति, 'अनातुरारोगानामयादि' स्वस्थव्यपदेशः पुरुषाणां क्रियत इति भावः ॥ ३७॥३८॥
चक्रपाणिः-सम्प्रति सम्यग्योगस्योपादेयतां दर्शयितुमयोगादीनां हेयतां दर्शयितु योगमेव चतुर्विधं कारणत्वेन दर्शयन्नाह--नेन्द्रियाणीत्यादि । ननु कथमिन्द्रियार्थयोः सुखदुःखकारणत्वेन उपलभ्यमानयोरप्यकारणत्वमित्याह- सतीत्यादि। योगो न चेति इन्द्रियार्थयोः सम्बन्धो न च, न सुखमिति च्छेदः। इान्द्रयार्थयोर्योगाभावे अकारणत्वेन, सति तु योगे कारणत्वेन योग एवान्वयव्यतिरेकाभ्यां कारणमवधार्यत इति भावः। अयच्च योग इन्द्रियार्थावधिकृत्य स्पष्टस्वेनोक्तः। तेन, प्रज्ञाकालयोरपि बोद्धव्यः। एतच्चेन्द्रियमर्थचानुपादेयं कृत्वा चतुर्विधयोगस्य कारणत्वं योगानामेव हेयोपादेयत्वेन दर्शनार्थं कृतम् ॥ ३९ ॥
चक्रपाणिः-परमार्थतस्त्वात्मेन्द्रियमनोबुद्धयर्थादृष्टान्येव तथायुक्तानि सुखदुःखकारणानीति दर्शयन्नाह-नात्मेत्यादि । गोचर इन्द्रियार्थः। कर्म अदृष्टम्। तत्र आत्मानं विना नोष्णादौ
For Private and Personal Use Only