SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम् । १८३६ यच्चान्यदीदृशं कर्म रजोमोहसमुत्थितम् । प्रज्ञापराधं तं शिष्टा ब्रुवते व्याधिकारणम्॥ बुद्धया विषमविज्ञानं विषमञ्च प्रवर्तनम् । प्रज्ञापराधं जानीयान्मनसो गोचरं हि तत् ॥ ३३॥ निर्दिष्टा कालसम्प्राप्तिाधीनां हेतुसंग्रहे । चयप्रकोपप्रशमाः पित्तादीनां यथा पुरा ॥ मिथ्यातिहीनलिङ्गाश्च वर्षान्ता रोगहेतवः । जीर्णभुक्तप्रजीर्णान्न-कालाकाल स्थितिश्च या ॥ अनुक्तमुपसंहति-यच्चान्यदित्यादि। बुद्धया विषमविज्ञानमिति धीधुतिस्मृतिभिः बुद्धिभिः। एतं यावन्तं प्रज्ञापराधं तन्मनसो गोचरं विषयं जानीयात् इति धीधृतिस्मृतिविभ्र'शो बुद्धेरयोगातियोगमिथ्यायोगरूप उदाहृतः ॥३३॥ गङ्गाधरः-अथ क्रमिकखात् सम्प्राप्तिः कालकर्मणामुदाहियते-निद्दिष्टा कालसम्पातिरित्यादि। दीर्घजीवितीयाध्याये व्याधीनां हेतुसंग्रहे कालबुद्धीन्द्रियार्थानामिति वचने कालसम्माप्तिः कालस्यायोगातियोगमिथ्यायोगरूपा निद्दिष्टा, व्याधिहेतुरेकस्तत्र तस्य विवरणं पित्तादीनां चयप्रकोपप्रशमा घादिषु यथा निर्दिष्टाः, तिस्रषणीये च मिथ्यायोगातियोगहीनयोगलिङ्गा वर्षान्ताः काला रोगहेतवो निर्दिष्टाः, जीर्णान्नस्य कालाकाल स्थिति, भुक्तानस्य भुक्तमात्रानस्य या कालाकालस्थितिः, प्रजीर्णान्नस्य जरणा क्लिष्टमिति निन्दितम्। संक्षेपेण प्रज्ञापराधं दर्शयन्नाह-बुद्धेवत्यादि । विषममित्यनुचितम्, विषम विज्ञानं स्वरूपत एव प्रज्ञापराधः। विषमप्रवर्तनञ्च 'प्रज्ञापराध'शब्देनोच्यते। मनसो गोचर तदिति, तद् विपमप्रवर्तनं विषमज्ञानञ्च मनःकार्य प्रज्ञाविषयत्वेन मनसो गोचरमित्यर्थः । विषमप्रवर्तनञ्च मनसो गोचरस्वेन उपचारादुक्तम्, विसदृशमनोविषयज्ञानाद् विषमवाग्देहप्रवृत्ति रूपं भवति ॥ ३३ ॥ चक्रपाणिः--व्याधीनां कालसम्प्राप्तिमाह निर्दिष्टेत्यादि। व्याधिसंग्रह इति कियन्तःशिरसीये "चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्। भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु" ॥ इत्यनेन यथा हुपदाहरणेन च। तेन कालसम्प्राप्तिाधीनां चयप्रकोपप्रशमाः पित्तादीनां पुरा निर्दिष्टा इति योज्यम्। उदाहरणान्तरमाह मिथ्येत्यादि। जीर्णादौ जीर्णाद्यवस्थात्रयविशिष्टस्य For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy